पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १४८ )
रघुवंशे

  लिङ्गैर्मुदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्राः।
  वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाछलेन ॥३०॥

 लिङ्गैरिति ॥ मुदः संतोषस्य लिङ्गैश्चिन्नैः कपटहासादिभिः संवृतविक्रिया निगृहितमत्सराः । अतएव प्रसन्ना बहिनिर्मला गूढनर्क्रा अन्तर्लीनग्राहा ह्रदा इव स्थितास्ते नृपा वैदर्भं भोजमामन्त्र्यापृच्छ्य तदीयां वैदर्भीयां पूजामुपदाछलेनोपायनमिषेण प्रत्यर्प्य ययुर्गतवन्तः ॥

  स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ स[१]मयोपलभ्यम् ।
  आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ॥३१॥

 स इति ॥ आरम्भसिद्धौ कार्यसिद्धौ विषये । पूर्वं कृता कृतपूर्वा ॥ सुप्सुपेति समासः ॥ कृतपूर्वा संवित्संकेतो मार्गावरोधरूप उपायो येन स तथोक्तः ॥ “सं- विद्युद्युद्धे प्रतिज्ञायां संकेताचारनामसु" इति केशवः ॥ स राजलोकः समयोपलभ्यमजप्रस्थानकाले लभ्यम् । तदा तस्यैकाकित्वादिति भावः ॥ “समरोपलभ्यम्" इति पाठे युद्धसाध्यमित्यर्थः ॥ तत्प्रमदैवामिषं भोग्यवस्तु ॥ आमिषं त्वस्त्रियां मांसे तथा स्याद्भोग्यवस्तुनि" इति केशवः ॥ आदास्यमानो ग्रहीप्यमाणः सन्नजस्य पन्थानमावृत्यावरुध्य तस्थौ ॥

  भर्तापि तावत्कथकैशिकानामनुष्ठितानन्तरजाविवाहः।
  सत्त्वानुरूपा[२]हरणीकृतश्रीः प्रास्थापयद्राघवमन्वगाच्च ॥ ३२॥

 भर्तेति ॥ अनुष्टितः संपादितोऽनन्तरजाया अनुजाया विवाहो येन स तथोक्तः क्रथकैशिकानां देशानां भर्ता स्वामी भोजोऽपि तावत्तदा सत्त्वानुरूपमुत्साहानुरूपं यथा तथा । आ समन्तात् । अनेनानियतवस्तुदानमित्यर्थः। हरणं कन्यायै देयं धनम् ॥ “यौतुकादि तु यद्देयं सुदायो हरणं च तत्" इत्यमरः ॥ आहरणीकृता श्रीर्येन तथोक्तः सन्राघवमजं प्रास्थापयत्प्रस्थापितवान्स्वयमन्वगादनुजगाम च ।।

   तिस्रस्त्रि[३]लोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा।
  तस्मादपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः॥३३॥

 तिस्र इति ॥ कुण्डिनं विदर्भनगरम् । तस्येशो भोजस्त्रिषु लोकेषु प्रथितेनाजेन सार्धं मार्गे पथि तिस्रो वसती रात्रीरुषित्वा स्थित्वा ॥ "वसती रात्रिवेश्मनोः" इत्यमरः ॥ “कालावनोरत्यन्तसंयोगे" इति द्वितीया ॥ पर्वात्यये दर्शान्त उष्णरश्मेः

सूर्यात्सोमश्चन्द्र इव । तस्मादजादपावर्तत । तं विसृज्य निवृत्त इत्यर्थः ॥


  1. समरेण लभ्यम्.
  2. आभरणीकृतश्री:
  3. त्रिलोकी.