पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१५१

पुटमेतत् सुपुष्टितम्
( १४९ )
सप्तमः सर्गः ।

  प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकमात्तस्वतया बभूवुः ।
  अतो नृपाचक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य ॥३४॥

 प्रमन्यव इति ॥ नृपा राजानः प्रागपि प्रत्येकमात्तस्वतया दिग्विजये गृहीतधनत्वेन कोसलेन्द्रे रघौ प्रमन्यवो रूढवैरा बभूवुः । अतो हेतोः समेताः संगताः सन्तस्तदात्मजस्य रघुसूनोः स्त्रीरत्नलाभं न चक्षमिरे न सेहिरे ॥

  तमुद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः ।
  बलिप्रदिष्टां श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः ॥३५ ।।

 तमिति ॥ दृप्त उद्धतः स राजन्यगणो राजसंघानः । भोजकन्यामुदूहन्तं नय- न्तं तमजम् । बलिना वैरोचनिना प्रदिष्टां दत्तां श्रियमाददानं स्वीकुर्वाणम् । त्रिविक्रमस्येमं त्रैविक्रमम् । पादमिन्द्रशत्रुः प्रह्लाद इव । पथि रुरोध ॥ तथा च ब्रह्मा- ण्डपुराणे--"विरोचनविरोधेऽपि प्रह्लादः प्राक्तनं स्मरन् । विष्णोस्तु क्रममाणस्य पादाम्भोजं रुरोध है" इति ॥

  तस्याः स रक्षार्थमनल्पयोधमादिश्य पित्र्यं सचिवं कुमारः।
  प्रत्यग्रहीत्पार्थिववाहिनीं तां भा[१]गीरथीं शोण इवोत्तरंगः॥३६॥

 तस्या इति ॥ स कुमारोऽजस्तस्या इन्दुमत्या रक्षार्थमनल्पयोधं वहुभटम् । पितुरागतं पित्र्यम् । आप्तमित्यर्थः । सचिवमादिश्याज्ञाप्य तां पार्थिववाहिनीं राजसेनाम् ॥ "ध्वजिनी वाहिनी सेना " इत्यमरः ॥ भागीरथीमुत्तरंगः शोणः शोणाख्यो नद इव । प्रत्यग्रहीदभियुक्तवान् ॥

  पत्तिः पदातिं रथिनं रथेशस्तुरंगसादी तुरगाधिरूढम् ।
  यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥३७॥

 पत्तिरिति॥पत्तिः पादचारो योद्धा पदाती पादचारमभ्यपतत् । पदा पदाभ्याततीति पदातिः ॥ पादस्य पदित्यादिना पदादेशः॥ “पदातिपत्तिपदगपादातिकपदाजयः" इत्यमरः॥ रथेशो रथिको रथिनं रथारोहमभ्यपतत् । तुरंगसाद्यश्वारोह स्तुरगाधिरूढमश्वारोहमभ्यपतत् ॥ "रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः" इत्यमरः ॥ गजस्य यन्ता हस्त्यारोहो गजस्थं पुरुषमभ्यपतत् । इत्थमनेन प्रकारेण तुल्यप्रतिद्वन्द्व्येकजातीयपतिभटं युद्धं बभूव ॥ अन्योन्यं द्वन्द्वं कलहोऽस्त्येषामिति प्रतिद्वन्द्विनो योधाः ॥ “द्वन्द्वं कलहयुग्मयोः" इत्यमरः ॥

  नदत्सु तूर्येष्वविश्राव्यवाचो नोदीरयन्ति स्म कुलोपदेशान् ।
  बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः॥३८॥


  1. ज्योतीरथाम्