पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १५० )
रघुवंशे


 नदत्स्विति ॥ तूर्येषु नदत्सु सत्स्वविभाव्यवाचोऽनवधार्यगिरश्चापभृतो धानुष्काः । कुलमुपदिश्यते प्रख्याप्यते यैस्ते कुलोपदेशास्तान्कुलनामानि नोदीरयन्ति स्म नोच्चारयामासुः । श्रोतुमशक्यत्वाद्वाचो नाबुवन्नित्यर्थः॥ किंतु बाणाक्षरैर्बाणेषु लिखिताक्षरैरेव परस्परस्यान्योन्यस्योजितं प्रख्यातं नाम शशंसुरूचुः ।।

  उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्प[१]न्दनवंशचक्रैः ।
  विस्तारितः कुञ्जरकर्णतालैर्ने[२]त्रक्रमेणोपरुरोध सूर्यम् ॥ ३९ ॥

 उत्थापित इति ॥ संयति संग्रामेऽश्वैरुत्थापितः। स्यन्दनवंशानां रथसमूहानां चक्रैः रथाङ्गैः सान्द्रीकृतो घनीकृतः ॥ “वंशः पृष्ठास्थि गेहोर्ध्वकाष्ठे वेणौ गणे कुले" इति केशवः ॥ कुञ्जरकर्णानां तालैस्ताडनविस्तारितः प्रसारितो रेणुर्नेत्रक्रमेणांशुकपरिपाट्या । अंशुकमिवेत्यर्थः ।। “स्याज्जटांशुकयोर्नेत्रम्" इति । "क्रमोऽङ्घ्रौ परिपाट्यां च” इति च केशवः ॥ सूर्यमुपरुरोधाच्छादयामास ॥

  मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धध्वजिनीरजांसि ।
  बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव न[३]वोदकानि ॥४०॥

 मत्स्येति ॥ वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धानि ध्वजिनीरजांसि सैन्यरेणून्पिबतो गृहन्तो मत्स्यध्वजा मत्स्याकारा ध्वजाः। पर्याविलानि परितः कलुषाणि नवोदकानि पिबन्तः परमार्थमत्स्याः सत्यमत्स्या इव ।बभ्रुर्भान्ति स्म ॥

  रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टा क्वणितेन नागः ।
  स्वभर्तनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः॥४१॥

 रथ इति ॥ सान्द्रे प्रवृद्धे रजसि रथो रथाङ्गध्वनिना चक्रस्वनेन विजज्ञे ज्ञातः। नागो हस्ती विलोलानां घण्टानां क्वणितेन नादेन विजज्ञे । आत्मपरावबोधः स्वपरविवेकः । योधानामिति शेषः । स्वभर्तॄणां स्वस्वामिनां नामग्रहणानामोच्चारणाद्वभूव । रजोऽन्धतया सर्वे स्वं परं च शब्दादेवानुमाय प्रजह्रुरित्यर्थः ॥

  आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य ।
  शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः॥१२॥

 आवृण्वत इति ॥ लोचनमार्गमावृण्वतो दृष्टिपथमुपरुन्धतः । आजौ युद्धे विजृम्भितस्य व्याप्तस्य । रज एवान्धकारं तस्य । शस्त्रक्षतेभ्योऽश्वद्विपवीरेभ्यो जन्म यस्य स तथोक्तो रुधिरप्रवाहो बालारुणो बालार्कोऽभूत् ॥ “अरुणो भास्करेऽपि

स्यात् " इत्यमरः ॥ बालविशेषणं रुधिरसावर्ण्यम् ।।


  1. स्यन्दनवंशतालैः; संयति नेमिचक्रः.
  2. अनुक्रमेण.
  3. वनोदकानि.