पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१५४

पुटमेतत् सुपुष्टितम्
( १५२ )
रघुवंशे

  पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी ।
  तुरंगमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष॥ ४७ ॥

 पूर्वमिति॥ पूर्वं प्रथमं प्रहर्ताश्वसादी तौरंगिकः प्रतिहारेऽक्षममशक्तं तुरंगमस्कन्धे निषण्णदेहम् । मूर्छितमित्यर्थः। रिपुं भूयो न जघान पुनर्न प्रजहार। किंतु प्रत्याश्वसन्तं पुनरुज्जीवन्तमाचकाङ्क्ष ॥ “नायुधव्यसनं प्राप्तं नार्तं नातिपरिक्षतम्" इति निषेधादिति भावः ॥

  तनुत्यजां वर्मभृतां विकोशैर्बृहत्सु दन्तेष्वसिभिः पतद्भिः ।
  [१]द्यन्तमग्निं शमयांबभ्रूवुर्गजा विविग्नाः करसीकरेण ॥ ४८॥

 तनुत्यजामिति ॥ तनुत्यजाम् । तनुषु निस्पृहाणामित्यर्थः । वर्मभृतां कवचिनां संबन्धिभिर्बृहत्सु दन्तेषु पतद्भिरतएव विकोशैः पिधानादुद्धृतैः ॥ “कोशोऽस्त्री कुड्मले खङ्गपिधाने" इत्यमरः॥ असिभिः खड्गैरुद्यन्तमुत्थितमग्निं विविग्ना भीता गजाः करसीकरेण शुण्डादण्डजलकणेन शमयांबभूवुः शान्तं चक्रुः ॥

  शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव ।
  रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः॥४९॥

 शिलीमुखेति ॥ शिलीमुखैर्बाणैरुत्कृत्तानि शिरांस्येव फलानि तैराढ्या संपन्ना । च्युतैर्भ्रष्टैः । शिरांसि त्रायन्त इति शिरस्त्राणि शीर्षण्यानि ॥ "शीर्षण्यं च शिरस्त्रे च" इत्यमरः ॥ तैश्चषकोत्तरा चषकः पानपात्रमुत्तरं यस्यां सेव ॥ “चषकोऽस्त्री पानपात्रम्' इत्यमरः ॥ शोणितान्येव मद्यं तस्य कुल्याः प्रवाहा यस्यां सा॥ "कुल्याल्पा कृत्रिमा सरित्" इत्यमरः ॥ रणक्षितिर्युद्धभूमिर्मृत्योः पानभूमिरिव रराज ॥

  उपान्तयोनि[२]ष्कुषितं विहंगैराक्षिप्य तेभ्यः पिशितप्रियापि।
  केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदमपाचकार ॥५०॥

 उपान्तयोरिति ॥ उपान्तयोः प्रान्तयोर्विहंगैः पक्षिभिर्निष्कुषितं खण्डितम् ।। 'इण्निष्टायाम्" इतीडागमः ॥ भुजच्छेदं भुजखण्डं तेभ्यो विहंगेभ्य आक्षिप्याच्छिद्य पिशितप्रिया मांसप्रियापि शिवा क्रोष्ट्री ॥ "शिवः कीलः शिवा कोष्ट्री" इति विश्वः॥ केयूरकोट्याङ्गदाग्रेण क्षतस्तालुदेशो यस्याः सा सती । अपाचकारापसारयामास । किरतेः करोतेर्वा लिट् ॥

  कश्चिद्द्विषत्खड्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य ।
  वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कबन्धं समरे ददर्श ॥ ५१ ॥



  1. उध्द्वृत्तम् .
  2. निर्घ्रुषितम्