पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१५५

पुटमेतत् सुपुष्टितम्
( १५३ )
सप्तमः सर्गः ।


 कश्चिदिति ॥ द्विषतः खड्गेन हृतोत्तमाङ्गश्छिन्नशिराः कश्चिद्वीरः सद्यो विमानप्रभुतां विमानाधिपत्यम् । देवत्वमित्यर्थः । उपेत्य प्राप्य वामाङ्गसंसक्ता सव्योत्सङ्गसङ्गिनी सुराङ्गना यस्य स तथोक्तः सन्समरे नृत्यत्स्वं निजं कबन्धं विशिरस्कं कलेवरं ददर्श ॥ “कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्” इत्यमरः ॥

  अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथिनौ च कौचित् ।
  व्यश्वौ गदाव्यायतसंप्रहारौ भग्नायुधौ बाहुविमर्दनिष्ठौ ॥५२॥

 अन्योन्येति ॥ कौचिद्वीरावन्योन्यस्य सूतयोः सारथ्योरुन्मथनान्निधनात्तावेव सूतौ रथिनौ योद्धारौ चाभूताम् । तावेव व्यश्वौ नष्टाश्वौ सन्तौ गदाभ्यां व्यायतो दीर्घः संप्रहारो युद्धं ययोस्तावभूताम् । ततो भग्नायुधौ भग्नगदौ सन्तौ बाहुविमर्दे निष्ठा नाशो ययोस्तौ बाहुयुद्धसक्तावभूताम् ॥ “निष्ठा निष्पत्तिनाशान्ता" इत्यमरः ॥

  परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालमेव ।
  अमर्त्यभावेऽपि कयोश्विदासीदेकाप्सर प्रार्थितयोर्विवादः॥५३॥

 परस्परेणेति ॥ परस्परेणान्योन्यं क्षतयोः क्षततन्वोः समकालमेककालं यथा तथोत्क्रान्तवाय्वोर्युगपदुद्गतप्राणयोः। एकैवाप्सराः प्रार्थिता याभ्यां तयोरेकाप्सरः प्रार्थितयोः । प्रार्थितैकाप्सरसोरित्यर्थः ॥ “वाहिताग्न्यादिषु" इति परनिपातः ॥ अथवा । एकस्यामप्सरसि प्रार्थितं प्रार्थना ययोरिति विग्रहः ॥ " स्त्रियां बहुष्वप्सरसः" इति बहुत्वाभिधानं प्रायिकम् ॥ कयोश्चित्प्रहर्त्रोर्योधयोरमर्त्य भावेऽपि देवत्वेऽपि विवादः कलह आसीत् ॥ एकामिषाभिलाषो हि महद्वैरबीजमिति भावः।।

  व्यूहावुभौ तावि[१]तरेतरस्माद्भङ्गं जयं चापतुरव्यवस्थम् ।
  पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी ॥ ५४ ॥

 व्यूहाविति ॥ तावुभौ व्यूही सेनासंघातौ ॥ “व्यूहस्तु बलविन्यासः" इत्यमरः ॥ पश्चात्पुरश्च यौ मारुतौ तयोः पर्यायवृत्त्या क्रमवृत्त्या प्रवृद्धौ महार्णवोर्मी इव । इतरेतरस्मादन्योन्यस्मादव्यवस्थं व्यवस्थारहितमनियतं जयं भङ्गं पराजयं चापतुः प्राप्तवन्तौ ॥

  परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यमेव ।
  धूमो नि[२]वर्त्येत समीरणेन यतस्तु[३] कक्षस्तत एव वह्निः ॥ ५५॥

 परेणेति ॥बले स्वसैन्ये परेण परबलेन भग्नेऽपि महौजा महाबलोऽजोऽरिसैन्यं प्रत्येव ययौ । तथाहि । समीरणेन वायुना धूमो निवर्त्येत कक्षादपसार्येत ॥ वर्त-


२०
 
  1. इतरेतरोत्थम.
  2. निवर्तेत.
  3. हि