पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१५६

पुटमेतत् सुपुष्टितम्
( १५४ )
रघुवंशे

तेर्ण्यन्ताकर्मणि संभावनायां लिङ्॥ वह्निस्तु यतो यत्र कक्षस्तृणम् ॥ "कक्षौ तु तृणवीरुधौ" इत्यमरः॥ तत एव तत्रैव । प्रवर्तत इति शेषः॥ सार्वविभक्तिकस्तसिः॥

  रथी निषङ्गी कवची धनुष्मान्दृप्तः स राजन्यकमेकवीरः।
  नि[१]वारयामास महावराहः क[२]ल्पक्षयोद्दृत्तमिवार्णवाम्भः॥५६ ॥

 रथीति ॥ रथी रथारूढो निषङ्गी तूणीरवान् ॥ “तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः" इत्यमरः॥ कवची वर्मधरो धनुष्मान्धनुर्धरो दृप्तो रणदृप्त एकवीरोऽसहायशूरः सोजो राजन्यकं राजसमूहम् ॥ “ गोत्रोक्ष-" इत्यादिना वुञ्प्रत्ययः॥ महावराहो वराहावतारो विष्णुः कल्पक्षये कल्पान्तकाल उद्वृत्तमुद्वेलमर्णवाम्भ इव । निवारयामास ॥

  स दक्षिणं तूणमुखेन वामं व्यापारयन्हस्तमलक्ष्यताजौ।
  आकर्णकृष्टा सकृदस्य योद्धर्मौर्वीव बाणान्सुषुवे रिपुघ्नान् ॥५७॥

 स इति ॥ सोऽजः।आजौ संग्रामे दक्षिणं हस्तं तूणमुखेन निषङ्गविवरणेन वाममतिसुन्दरम् ॥ “वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे" इति विश्वः॥ व्यापारयन्नलक्ष्यत । शरसंधानादयस्तु दुर्लक्ष्या इत्यर्थः॥ सकृदाकर्णकृष्टा योद्धुरस्याजस्य मौर्वी ज्या। रिपून्घ्नन्तीति रिपुघ्नाः । तान् ॥ "अमनुष्यकर्तृके च" इति ठक्प्रत्ययः॥ बाणान्सुषुव इव सुषुवे किमु । इत्युत्प्रेक्षा ॥

  स रोष[३]दष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेखा भ्रुकुटीर्वहद्भिः ।
  तस्तार गां भल्लनिकृत्तकण्ठैर्हूंका[४]रगर्भैर्द्विषतां शिरोभिः॥५८॥

 स इति ॥ सोऽजः रोपेण दष्टा अतएवाधिकलोहिता ओष्ठा येषां तानि तैः।व्यक्ता ऊर्ध्वा रेखा यासां ता भ्रुकुटीर्भ्रू्भङ्गान्वहद्भिः । भल्लनिकृत्ता वाणविशेच्छिन्नाः कण्ठा येषां तैः । हूंकारगर्भैः सहूंकारैः । हूंकुर्वद्भिरित्यर्थः । द्विषतां शिरोभिर्गां भूमिं तस्तार छादयामास ॥

  सर्वैर्ब[५]लाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च ।   सर्वप्रयत्नेन च भूमिपालास्तस्मिन्प्रजह्रर्युधि सर्व एव ॥ ५९ ।।

 सर्वैरिति ॥ द्विरदप्रधानैर्गजमुख्यैः सर्वैर्बलाङ्गैः सेनाङ्गैः॥ "हस्त्यश्वरथपादा तं सेनाङ्गं स्याच्चतुष्टयम्" इत्यमरः समरः ॥ कङ्कटभेदिभिः कवचमेदिभिः ॥ " उरश्छदः

कङ्कटको जगरः कवचोऽस्त्रियाम्" इत्यमरः ॥ सर्वायुधैश्च ॥ बाह्यबलमुक्तान्तर-


  1. विलोडयामास.
  2. कल्पक्षयोद्धूतम्.
  3. रोष दृष्टाधरलोहिताक्षैः
  4. हुंकारगर्भैः.
  5. बलोघैः