पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१६०

पुटमेतत् सुपुष्टितम्
( १५८ )
रघुवंशे


स प्रथमपरिगतार्थो रघुर्विजयिनं विजययुक्तं श्लाघ्यजायासमेतं संनिवृत्तं प्रत्यागतं तमजमभिनन्द्य । तस्मिन्नज उपहितकुटुम्बः सन् । “सुतविन्यस्तपत्नीकः" इति याज्ञवल्क्यस्मरणादिति भावः । शान्तिमार्गे मोक्षमार्ग उत्सुकोऽभूत् । तथाहि । कुलधुर्ये कुलधुरंधरे सति सूर्यवंश्या गृहाय गृहस्थाश्रमाय न भवन्ति ।।

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
अजपाणिग्रहणो नाम सप्तमः सर्गः ।


अष्टमः सर्गः ।


    हेरम्बमवलम्बेऽहं यस्मिन्पातालकेलिषु ।
    दन्तेनोदस्यति क्षोणीं विश्राम्यन्ति फणीश्वराः॥

 

अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः।
वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ॥ १॥

 अथेति॥ अथ पार्थिवो रघुर्ललितं सुभगं विवाहकौतुकं विवाहमङ्गलं विवाहहस्तसूत्रं वा बिभ्रत एव ॥ “कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले” इति शाश्वतः ॥ तस्याजस्य । अपरामिन्दुमतीमिव । वसुधामपि हस्तगामिनीमकरोत् । अस्मिन्सर्गे वैतालीयं छन्दः॥

 

दुरितैरपि कर्तुमात्मसात्प्रयतन्ते नृपसूनवो हि यत् ।
तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया ॥२॥

 दुरितैरिति । नृपसूनवो राजपुत्रा यद्राज्यं दुरितैरपि विषप्रयोगादिनिपिद्धोपायैरप्यात्मसात्स्वाधीनम् ॥ “तदधीनवचने” इति सातिप्रत्यय ॥कर्तुं प्रयतन्ते हि । प्रवर्तन्त एवेत्यर्थः। हिशब्दोऽवधारणे ॥" हि हेताववधारणे" इत्यमरः ॥ उपस्थितं स्वतःप्राप्तं तद्राज्यमजः पितुराज्ञेति हेतोरग्रहीत्स्वीचकारः। भोगतृष्णया तु नाग्रहीत्॥  

अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनम् ।
विशदोच्छुसितेन मेदिनी कथयामास कृतार्थतामिव ॥३॥

 अनुभूयेति ॥ मेदिनी भूमिः महिषी च ध्वन्यते । वसिष्ठेन संभृतैः सलिलै स्तेनाजेन सहाभिषेचनमनुभूय विशदोच्छ्वसितेन स्फुटमुद्बृंहणेन । आनन्दनिर्मलोच्छ्वसितेन चेति ध्वन्यते । कृतार्थतां गुणवद्भर्तृलाभकृतं साफल्यं कथयामासेव ॥ न चैतावता पूर्वेषामपकर्षः । प्रशंसापरत्वात् । “सर्वत्र जयमन्विच्छेत्पुत्रादिच्छेत्पराजयम्" इत्यङ्गीकृतत्वाच्च ॥