पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१६१

पुटमेतत् सुपुष्टितम्
( १५९ )
अष्टमः सर्गः ।


  स बभूव दुरासदः परैर्गुरुणाथर्वविदा कृतक्रियः।
  पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा ।। ४ ॥

 स इति ॥ अथर्वविदाथर्ववेदाभिज्ञेन गुरुणा वसिष्टेन कृतक्रियः। अथर्वोक्तविधिना कृताभिषेकसंस्कार इत्यर्थः । सोऽजः परैः शत्रुभिर्दुरासदो दुर्धर्षो बभूव ॥ तथाहि । अस्त्रतेजसा क्षत्रतेजसा सहितं युक्तं यद्ब्रह्म ब्रह्मतेजोऽयं पवनाग्निसमागमो हि । तत्कल्प इत्यर्थः ॥ पवनाग्नीत्यत्र पूर्वनिपातशास्त्रस्यानित्यत्वात् “द्वन्द्वे घि" इति नाग्निशब्दस्य पूर्वनिपातः ॥ तथा च काशिकायाम्- " अयमेकस्तु लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम्" इति ॥ क्षात्रेणैवायं दुर्धर्षः किमयं पुनर्वसिष्ठमन्त्रप्रभावे सतीत्यर्थः ॥अत्र मनुः-"नाक्षत्रं ब्रह्म भवति क्षत्रं नाब्रह्म वर्धते । ब्रह्मक्षत्रे तु संयुक्त इहामुत्र च वर्धते" इति ॥

  रघुमेव निवृत्तयौवनं तममन्यन्त न[१]वेश्वरं प्रजाः।
  स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि ॥५॥

 रघुमिति ॥ प्रजा नवेश्वरं तमजं निवृत्तयौवनं प्रत्यावृत्तयौवनं रघुमेवामन्यन्त । न किंचिद्भेदकमस्तीत्यर्थः ॥ कुतः । हि यस्मात्सोऽजस्तस्य रघोः केवलामेकां श्रियं न प्रतिपेदे । किंतु सकलान्गुणाञ्छौर्यदाक्षिण्यादीनपि प्रतिपेदे ॥ अतस्तद्गुणयोगात्तद्बुद्धिर्युक्तेत्यर्थः ॥

  अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव संगतम् ।
  पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥ ६ ॥

 अधिकामिति ॥ द्वयमेव शुभंयुना शुभवता ॥ “शुभंयुस्तु शुभान्वितः” इत्यमरः ॥ " अहंशुभमोर्युस्” इति युस्मत्ययः ॥ द्वितयेन संगतं युतं सदाधिकं शुशुभे ॥ किं केनेत्याह- पदमिति ॥ पैतृकं पितुरागतम् ॥ "ऋतष्ठञ्" इति ठष्प्रत्ययः॥ ऋद्धं समृद्धं पदं राज्यमजेन । अस्याजस्य नवं यौवनं विनयेनेन्द्रियजयेन च ॥ “विजयो हीन्द्रियजयस्तयुक्तः शास्त्रमर्हति" इति कामन्दकः । राज्यस्थोऽपि प्राकृतवन्न दृप्तोऽभूदित्यर्थः ॥

  सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।
  अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूमिव ॥७॥

 सदयमिति महाभुजः सोऽजोऽचिरोपनतां नवोपगतां मेदिनीं भुवम् । नवं पाणिग्रहणं विवाहो यस्यास्तां नवोढां वधूमिव । सहसा बलात्कारेण चेत् ॥ “सहो बलं सहा मार्गः" इत्यमरः ॥ इयं मेदिनी वधूर्वोद्वेगं भयं ब्रजेदिति हेतोः । सदयं सकृपं बुभुजे भुक्तवान् ॥ “भुजोऽनवने" इसात्मनेपदम् ॥



  1. नरेश्वरम्