पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१६२

पुटमेतत् सुपुष्टितम्
( १६० )
रघुवंशे


  अहमेव मतो म[१]हीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
  उदधेरिव निम्नगाशतेष्वभवन्नास्य विमानना क्वचित् ॥ ८॥

 अहमिति ॥ प्रकृतिषु प्रजासु मध्ये सर्वोऽपि जनः ॥ अथवा प्रकृतिष्वित्यस्याहमित्यनेनान्वयः । व्यवधानं तु सह्यम् ॥ सर्वोऽपि जनः प्रकृतिष्वहमेव महीपतेर्मतो महीपतिना मन्यमानः ॥ “मतिबुद्धिपूजार्थेभ्यश्च" इति वर्तमाने क्तः । "क्तस्य च वर्तमाने" इति षष्ठी ॥ इत्यचिन्तयदमन्यत ।। उदधेर्निम्नगाशतेष्विवास्य नृपस्य ॥ कर्तुः ॥ “कर्तृकर्मणोः कृति" इति कर्तरि षष्ठी ॥ क्वचिदपि जनविषये विमाननावगणना तिरस्कारो नाभवत् ॥ यतो न कंचिदवमन्यतेऽतः सर्वोऽप्यहमेवास्य मत इत्यमन्यतेत्यर्थः॥

  न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव ।
  स पुरस्कृतमध्यमक्र[२]मो नमयामास नृपान[३]नुद्धरन् ॥ ९॥

 नेति ।। स नृपो भूयसा बाहुल्येन खरस्तीक्ष्णो न । भूयसा मृदुरतिमृदुरपि न । किंतु पुरस्कृतमध्यमक्रमः सन् । मध्यमपरिपाटीमवलम्ब्येत्यर्थः । पवमानो वायुः पृथिवीरुहांस्तरूनिव । नृपाननुद्धरन्ननुत्पाटयन्नेव नमयामास ।। अत्र कामन्दकः-- " मृदुश्चेदवमन्येत तीक्ष्णादुद्विजते जनः । तीक्ष्णश्चैव मृदुश्चैव प्रजानां स च संमतः" इति ॥

  अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमा[४]त्मवत्तया ।
  विषयेषु विना[५]शधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ॥ १०॥

 अथेति ॥ अथ रघुरात्मजं पुत्रमात्मवत्तया । निर्विकारमनस्कतयेत्यर्थः । उदयादिष्वविकृतिर्मनसः सत्त्वमुच्यते ॥ “ आत्मवान्सत्त्ववानुक्तः" इत्युत्पलमालायाम् ॥ प्रकृतिष्वमात्यादिषु प्रतिष्ठितं रूढमूलं वीक्ष्य ज्ञात्वा विनाशो धर्मो येषां तेषु विनाशधर्मसु । अनित्येष्वित्यर्थः ॥ “धर्मादनिच्केवलात्" इत्यनिच्प्रत्ययः समासान्तः ॥ त्रिदिवस्थेषु स्वर्गस्थेष्वपि विषयेषु शब्दादिषु निःस्पृहो निर्गतेच्छोऽभवत् ॥

 कुलधर्मश्चायमेवेत्याह-

  गुणवत्सुतरोपितश्रियः परिणामे हि दि[६]लीपवंशजाः।
  पदवीं तरुवल्कवाससां प्र[७]यताः संयमिनां प्रपेदिरे ॥ ११ ॥

 गुणवदिति ॥ दिलीपवंशजाः परिणामे वार्द्धके गुणवत्सुतेषु रोपितश्रियः


  1. अस्य भूपतेः.
  2. क्रियः.
  3. अनन्तरान्.
  4. आत्मवित्तया (=आत्मज्ञत्वेन ).
  5. विनाशधर्मिषु.
  6. ककुत्स्थवंशजाः.
  7. यमिनः संप्रियया।