स्थापितलक्ष्मीकाः प्रयताश्च सन्तः। तरुवल्कान्येव वासांसि येषां तेषां संयमिनां
यतीनां पदवीं प्रपेदिरे । यस्मात्तस्मादस्यापीदमुचितमित्यर्थः ॥
तमरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः।
पितरं प्रणिपत्य पादयोरपरित्यागमयाचतात्मनः ॥ १२ ॥
तमिति ॥अरण्यसमाश्रयोन्मुखं वनवासोद्युक्तं पितरं तं रघुं सुतोऽजः । वेष्टनशोभिनोष्णीषमनोहरेण शिरसा पादयोः प्रणिपत्य । आत्मनोऽपरित्यागमयाचत । मां परित्यज्य न गन्तव्यमिति प्रार्थितवानित्यर्थः ।
रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः ।
न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥ १३ ॥
रघुरिति ॥ आत्मजप्रियः पुत्रवत्सलो रघुः । अश्रूणि मुखे यस्य तस्याश्रुमुखस्याजस्य तदपरित्यागरूपमीप्सितमभिलषितं कृतवान् । किंतु सर्पस्त्वचमिव व्यपवर्जितां त्यक्तां श्रियं पुनर्न प्रतिपेदे न प्राप ॥
स किलाश्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः ।
समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥१४॥
स इति ॥ स रघुः किलान्त्यमाश्रमं प्रव्रज्यामाश्रितः पुरान्नगराद्बहिरावसथे स्थाने निवसन्नविकृतेन्द्रियः जितेन्द्रियः सन्नित्यर्थः । अतएव स्नुषयेव वध्वेव पुत्रभोग्यया । न स्वभोग्यया । श्रिया समुपास्यत शुश्रूषितः॥ जितेन्द्रियस्य तस्य स्नुषयेव श्रियापि पुष्पफलोदकाहरणादिशुश्रूषाव्यतिरेकेण न किंचिदपेक्षितमासीदित्यर्थः । अत्र यद्यपि “ब्राह्मणाः प्रव्रजन्ति" इति श्रुतेः । “ आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्" इति मनुस्मरणात् । “ मुखजानामयं धर्मो यद्विष्णोलिङ्गधारणम् । बाहुजातोरुजातानामयं धर्मो न विद्यते” इति निषेधाच्च ब्रह्मणस्यैव प्रव्रज्या न क्षत्रियादेरित्याहुः । तथापि “ यदहरेव विरजेत्तदहरेव प्रव्रजेत्" इत्यादि श्रुतेस्त्रैवर्णिकसाधारण्यात् । “ त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः" इति सूत्रकारवचनात् । “ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद्गृहात्" इति स्मरणात् । “ मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम् । वाहुजातो रुजातानां त्रिदण्डं न विधीयते" इति निषेधस्य त्रिदण्डविषयत्वदर्शनाच्च । कुत्रचिद्ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित्त्रैर्वणिकाधिकारं प्रतिपेदिरे ॥ तथा सति “स किलाश्रममन्त्यमाश्रितः" (८/१४) इत्यत्रापि कविनाप्ययमेव पक्षो विवक्षित इति प्रतीमः । अन्यथा वानप्रस्थाश्रमतया व्याख्याते "विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्निचित्" (८।२५) इति वक्ष्यमाणेनानग्निसंस्कारेण
विरोधः स्यात् ।अग्निसंस्काररहितस्य वानप्रस्थस्येवाभावात् । इत्यलं प्रासङ्गिकेन ।