पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१६६

पुटमेतत् सुपुष्टितम्
( १६४ )
रघुवंशे


  इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।
  प्र[१]सितावुदयापवर्गयोरु[२]भयीं सिद्धिमुभाववापतुः ॥ २३॥

 इतीति ॥ इत्येवं प्रतिषिद्धः प्रसरः स्वार्थप्रवृत्तिर्येषां तेषु शत्रुषु चेन्द्रियेषु च जाग्रतावप्रमत्तावुदयापवर्गयोरभ्युदयमोक्षयोः प्रसितावासक्तौ ॥"तत्परे प्रसितासक्तौ” इत्यमरः ॥ उभावजरघू उभयीं द्विविधामभ्युदयमोक्षरूपाम् ॥ “ उभादुदात्तो नित्यम् " इति तयप्प्रत्यस्यायजादेशः। “ टिड्ढा -" इति ङीप् सिद्धिंं फलमवापतुः । उभावुभे सिद्धी यथासंख्यमवापतुरित्यर्थः ॥

  अथ काश्चिदजव्यपेक्षया गमयित्वा समदर्शनः समाः।
  तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥२४॥

 अथेति ॥ अथ रघुः समदर्शनः सर्वभूतेषु समदृष्टिः सन्नजव्यपेक्षयाजाकाङ्क्षानुरोधेन काश्चित्समाः कतिचिद्वर्षाणि ॥ “समा वर्षं समं तुल्यम्" इति विश्वः ॥गमयित्वा नीत्वा योगसमाधिनैक्यानुसंधानेन ॥ “संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः" इति वसिष्ठः॥ अव्ययमविनाशिनं तमसः परमविद्यायाः परम् ।मायातीतमित्यर्थः । पुरुषं परमात्मानमापत्प्राप । सायुज्यं प्राप्त इत्यर्थः ॥

  श्रुतदेहविसर्जनः पितुश्चरमश्रूणि वि[३]मुच्य राघवः ।
  विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निमग्नि[४]चित् ॥२५॥

 श्रुतेति ॥ अग्निचिदग्निं चितवानाहितवान् ॥ “अग्नौ चेः” इति क्विप्प्रत्ययः॥ राघवोऽजः पितुः श्रुतदेहविसर्जन आकर्णितपितृतनुत्यागः संश्चिरमश्रूणि बाष्पान्विमुच्य विसृज्यास्य पितुरनग्निम् । अग्निसंस्काररहितमित्यर्थः । नैष्ठिकं निष्ठायामन्ते भवं विधिमाचारमन्त्येष्टिं यतिभिः संन्यासिभिः सार्धं सह विदधे चक्रे । अनग्निं विधिमित्यत्र शौनक:-“सर्वसङ्गनिवृत्तस्य ध्यानयोगरतस्य च । न तस्य दहनं कार्यं नैव पिण्डोदकक्रिया । निदध्यात्प्रणवेनैव बिले भिक्षोः कलेवरम् । प्रोक्षणं खननं चैव सर्वं तेनैव कारयेत्" इति ॥

  अकरोत्स[५] तदौर्ध्वदैहिकपितृकार्यकल्पवित् ।
  न हि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः ॥२६॥

 अकरोदिति ॥ पितृकार्यस्य तातश्राद्धस्य कल्पविद्विधानज्ञः सोऽजः पितृभक्त्या पितरि प्रेम्णा । करणेन । न पितुः परलोकसुखापेक्षया । मुक्तत्वादिति भावः। तस्य रघोरौर्ध्वदैहिकम् । देहादूर्ध्वं भवतीति तत्तिलोदकपिण्डदानादिकमकरोत्॥

"उर्ध्वं देहाच्च" इति वक्तव्याट्ठक्प्रत्ययः । अनुशतिकादित्वादुभयपदवृद्धिः ॥ ननु


  1. प्रसृतो.
  2. उभयाम्
  3. विसृज्य.
  4. अग्निवित्