पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१६८

पुटमेतत् सुपुष्टितम्
( १६६ )
रघुवंशे


देवगणानामिन्द्रादीनां खधाभुजां पितॄणामनृणत्वमृणविमुक्तसमुपेयिवान्प्राप्तवान् ॥ एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा" इति श्रुतेः ॥ स पार्थिवोऽजः परिधेः परिवेशात् ॥ “परिवेशस्तु परिधिः" इत्यमरः ॥ मुक्तो निर्गतः । कर्मकर्ता । उष्णदीधितिः सूर्य इव । बभौ दिदीपे । इत्युपमा ।

  बलमार्तभयोपशान्तये विदुषां स[१]त्कृतये बहु श्रुतम् ।
  वसु तस्य वि[२]भोर्न केवलं गुणवत्तापि प[३]रप्रयोजना ॥ ३१ ॥

 बलमिति ॥ तस्य विभोरजस्य केवलं वसु धनमेव परप्रयोजनं परोपकारकं नाभूत् । किंतु गुणवत्तापि गुणित्वमपि परप्रयोजना परेषामन्येषां प्रयोजनं यस्यां सा । विधेयांशत्वेन प्राधान्याद्गुणवत्ताया विशेषणं वस्वित्यत्र तूहनीयम् । तथा हि । बलं पौरुषमार्तानामापन्नानां भयस्योपशान्तये निषेधाय । न तु स्वार्थं परपीडनाय वा । बहु भूरि श्रुतं विद्या विदुषां सत्कृतये सत्काराय । न तूत्सेकाय । बभूव ॥ तस्य धनं परोपयोगीति किं वक्तव्यम् । बलश्रुतादयोऽपि गुणाः परोपयोगिन इत्यर्थः॥

  स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः।
  नगरोपवने शचीसखो मरुतां पालयितेव न[४]न्दने ॥ ३२ ॥

 स इति ॥ अवेक्षितप्रजोऽकुतोभयत्वेनानुसंहितप्रजः ॥ “नित्यमसिच्प्रजामेधयोः" इत्यच्प्रत्ययः ॥ न केवलं स्त्रैण इति भावः । शोभना प्रजा यस्यासौ सुप्रजाः । सुपुत्रवान् । पुत्रन्यस्तभार इति भावः । सोऽजः कदाचिद्देव्या महिष्येन्दुमत्या सह नगरोपवने । नन्दने नन्दनाख्येऽमरावत्युपकण्ठवने शचीसखः । शच्या सहेत्यर्थः । मरुतां देवानां पालयितेन्द्र इव । विजहार चिक्रीड ॥

  अथ रोधसि दक्षिणोदधेः श्रि[५]तगोकर्णनिकेतमीश्वरम् ।
  [६]पवीणयितुं ययौ रवेरु[७]दयावृत्तिपथेन नारदः॥ ३३ ॥

 अथेति ॥ अथ दक्षिणस्योदधेः समुद्रस्य रोधसि तीरे श्रितगोकर्णनिकेतमधिष्ठितगोकर्णाख्यस्थानमीश्वरं शिवमुपवीणयितुं वीणयोप समीपे गातुम् ॥ “सत्यापपाश-" इत्यादिना वीणाशब्दादुपगानार्थे णिच्प्रत्ययः । ततस्तुमुन् ॥ नारदो देवपीं रवेः सूर्यस्य संबन्धिनोदयावृत्तिपथेनाकाशमार्गेण ययौ जगाम ॥ सूर्योपमानेनास्यातितेजस्त्वमुच्यते ॥


  1. संमतये; संनतये.
  2. न केवलं विभोः.
  3. परप्रयोजनम्,
  4. नन्दनम्,
  5. श्रुत.
  6. उपवर्णयितुम्.
  7. उदगावृत्तिपथेन. (=उदीच उत्तरस्या दिश आकाश आवृत्तिनिवर्तनम् । तस्याः पन्था गतिप्रकारस्तेन ।
    यथा रविरुत्तरस्या दिशो व्यावृत्य दक्षिणायनमागच्छति तद्वदित्यर्थः).