पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१७

पुटमेतत् सुपुष्टितम्
( १५ )
प्रथमः सर्गः ।

स्यन्दनाबद्धदृष्टिषु स्यन्दने रथ आबद्धासञ्जिता दृष्टिर्नेत्रं यस्तेषु ॥ “दृग्दृष्टिनेत्रलोचनचक्षुर्नयनाम्बकेक्षणाक्षीणि” इति हलायुधः ॥ कौतुकवशाद्रथासक्तदृष्टिष्वित्यर्थः ॥ मृग्यश्च मृगाश्च मृगाः ॥ “पुमान्स्त्रिया” इत्येकशेषः ॥ तेषां द्वन्द्वेषु मिथुनेषु ॥ “स्त्रीपुंसौ मिथुनं द्वन्द्वम्” इत्यमरः ॥ परस्पराक्ष्णां सादृश्यं पश्यन्तौ । द्वन्द्वशब्दसामर्थ्यान्मृगीषु सुदक्षिणाक्षिसादृश्यं दिलीपो दिलीपाक्षिसादृश्यं च मृगेषु सुदक्षिणेत्येवं विवेक्तव्यम् ॥

  श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजम् ।
  सारसैः कलनिह्रादै[] क्वचिदुन्नमिताननौ ॥४१॥

 श्रेणीति ॥ श्रेणीबन्धात्पङ्क्तिबन्धनाध्देतोरस्तम्भामाधारस्तम्भरहिताम् । तोरणं बहिर्द्वारम् ।। “तोरणोऽस्त्री बहिर्द्वारम्” इत्यमरः ॥ तत्र या स्रग्विरच्यते तां तोरणस्रजं वितन्वद्भिः। कुर्वद्भिरिवेत्यर्थः । उत्प्रेक्षाव्यञ्जकेवशब्दप्रयोगाभावेऽपि गम्योत्प्रेक्षेयम् । कलनिर्ह्रादरैव्यक्तमधुरध्वनिभिः सारसैः पक्षिविशेषैः । करणैः । क्वचिदुन्नमिताननौ ।। “सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः” इति यादवः॥

  पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः[]
  रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ॥४२॥

 पवनस्येति ॥ प्रार्थनासिद्धिशंसिनोऽनुकूलत्वादेव मनोरथसिद्धिसूचकस्य पवनस्यानुकूलत्वाद्गन्तव्यदिगभिमुखत्वात् । तुरगोत्कीर्णै रजोभिरस्पृष्टा अलका देव्या वेष्टनमुष्णीषं च राज्ञो ययोस्तौ तथोक्तौ ॥ “शिरसा वेष्टनशोभिना सुतः” (८।१२) इति वक्ष्यति ॥

  सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् ।
  आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥४३॥

 सरसीष्विति ॥ सरसीषु वीचिविक्षोभशीतलमूर्मिसंघटनेन शीतलं स्वनिःश्वासमनुकर्तुं शीलमस्येति स्वनिःश्वासानुकारिणम् । एतेन तयोरुत्कृष्टस्त्रीपुंसजातीयत्वमुक्तम् । अरविन्दानामामोदमुपजिघ्रन्तौ घ्राणेन गृह्णन्तौ ॥

  ग्रामेष्वात्मविसृष्टेषु यूपचिन्हेषु यज्वनाम् ।
  अमोघाः प्रतिगृह्णन्तावर्घ्यानुपदमाशिषः॥४४॥

 ग्रामेष्विति ॥ आत्मविसृष्टेषु स्वदत्तेषु । यूपो नाम संस्कृतः पशुबन्धाय दारुविशेषः। यूपा एव चिह्नानि येषां तेषु ग्रामेष्वमोघाः सफला यज्वनां विधिनेष्टवताम् ।।



  1. निह्लादैः.
  2. शासिनः.