पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १७० )
रघुवंशे

"हृदयं वक्षसि स्वान्ते" इत्यमरः ॥ निहिता सती मां किं न हन्ति । ईश्वरेच्छया क्वचित्मदेशे विषमप्यमृतं भवेत्कचिदमृतं वा विषं भवेत् । दैवमेवात्र कारणमित्यर्थः॥

  अथवा म[१]म भाग्यविप्लवादशनिः क[२]ल्पित एष वे[३]धसा।
  यदनेन त[४]रुर्न पातितः क्षपिता त[५]द्विलतालता ॥१७॥

 अथवेति ॥ अथवा मम भाग्यस्य विप्लवाद्विपर्ययादेषः । स्रगित्यर्थः ॥ विधेयप्राधान्यात्पुंलिङ्गनिर्देशः॥ वेधसा विधात्राशनिर्वैद्युतोऽग्निः कल्पितः ॥ “दम्भो- लिरशनियोः" इत्यमरः । यद्यस्मादनेनाप्यशनिना प्रसिद्धाशनिनेव तरुस्तरुस्थानीयः खयमेव न पातितः। किंतु तस्य तरोविंटपाश्रिता लता वल्ली क्षपिता नाशिता॥

  कृतवत्यसि नावधीरणाम[६]पराद्धेऽपि यदा चिरं मयि ।
  कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे ॥१८॥

 कृतवतीति ॥ मयि चिरं भूरिशोऽपराद्धेऽप्यपराधं कृतवत्यपि ॥ राधेः कतरि क्तः॥ यदा यस्माद्धेतोः-यदेति हेत्वर्थः । “स्वरादौ पठ्यते यदेति हेतौ" इति गणव्याख्यानात् ॥ अवधारणामवज्ञां न कृतवत्यसि नाकार्षीः । तत्कथमेकपदे तत्क्षणे ॥ " स्यात्तत्क्षण एकपदम्" इति विश्वः ॥ निरागसं नितरामनपराधमिमं जनम् । इममिति स्वात्मनिर्देशः । मामित्यर्थः। आभाष्यं संभाष्यं न मन्यसे न चिन्तयसि ॥

  ध्रुवमस्मि शठः शुचिस्मिते विदितः कैतववत्सलस्तव ।
  परलोकमसंनिवृत्तये यद[७]नापृच्छ्य गतासि मामितः॥१९॥

 ध्रुवमिति ॥ हे शुचिस्मिते धवलहसिते, शठो गूढविपियकारी कैतवेन कपटेन वत्सलः कैतवस्निग्ध इति ध्रुवं सत्यं तव विदितस्त्वया विज्ञातोऽस्मि ॥ “मतिबुद्धि-" इत्यादिना कर्तरि क्तः । क्तस्य च वर्तमाने" इति कर्तरि षष्ठी ॥कुतः । यद्यस्मान्मामनापृच्छयानामन्त्र्येतोऽस्माल्लोकात्परलोकमसंनिवृत्तयेऽपुनरावृत्तये गतासि ॥

  दयितां यदि तावदन्वगाद्विनिवृत्तं किमिदं तया विना ।
  सहतां हतजीवितं मम प्रबलात्मि[८]कृतेन वेदनाम् ॥ ५० ॥

 दयितामिति ॥ इदं मम हतजीवितं कुत्सितं जीवितं तावदादौ दयितामिन्दुमतीमन्वगादन्वगच्छद्यदि । अन्वगादेव ॥ यद्यत्रावधारणे ॥ पूर्व मूर्छितत्वादिति

भावः ॥ तर्हि तया दयितया विना किं किमर्थं विनिवृत्तं प्रयागतम् । प्रत्यागमनं


  1. सुरमाल्यरूपभाक्.
  2. निर्मितः.
  3. कर्मणा.
  4. न पातितस्तरुः.
  5. तद्विटापाश्रया.
  6. अपराधे.
  7. अनामन्त्र्य
  8. आत्मकृता तु वेदनाम् ; आत्मकृतान्तवेदनाम्,