तव मुखम् । निशि रात्रौ सुप्तं निमीलितं विरतोऽभ्यन्तराणामन्तवर्तिनां षट्पदानां स्वनो यत्र तत् । निःशब्दभृङ्गमित्यर्थः । एकपङ्कजमद्वितीयं पद्ममिव । मां दुनोति परितापयति ॥
शशिनं पुनरेति शर्वरी दयिता द्वन्द्वचरं पतत्रिणम् ।
इति तौ विरहान्तरक्षमौ कथमत्यन्तगता न मां दहेः॥५६ ।।
शशिनमिति ॥ शर्वरी रात्रिः शशिनं चन्द्रं पुनरेति प्राप्नोति । द्वन्द्वीभूय चरतीति द्वन्द्वचरः। तं पतत्रिणं चक्रवाकं दयिता चक्रवाकी पुनरेति । इति हेतोस्तौ चन्द्रचक्रवाकौ विरहान्तरक्षमौ विरहावधिसहौ । “अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादर्थ्ये " इत्यमरः ॥ अत्यन्तगता पुनरावृत्तिरहिता त्वं तु कथं न मां दहेर्न संतापयेः । अपि तु दहेरेवेत्यर्थः ॥
नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गमर्पितम् ।
तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणम् ॥ ५७ ॥
नवेति । नवपल्लवसंस्तरे नूतनप्रवालास्तरणेऽप्यर्पितं स्थापितं मृदु ते तव यदङ्गं शरीरं दूयेत परितप्तं भवेत् । वामौ सुन्दरौ ऊरू यस्याः सा हे वामोरु ॥ “वामं स्यात्सुन्दरे सख्ये" इति केशवः ॥ “संहितशफलक्षण-" इत्यादिनोङ्प्रत्ययः ॥ तदिदमङ्गं चितायाः काष्टसंचयस्याधिरोहणं कथं विषहिष्यते वद ॥
इयमप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी।
गतिविभ्रमसादनीरवा न शुचा नानुमृतेव लक्ष्यते ॥ ५८॥
इयमिति ॥ इयं प्रथमाद्या रह:सखी । सुरतसमयेऽप्यनुयानादिति भावः । गतिविभ्रमसादेन नीरवा विलासोपरमेण निःशब्दा रशना मेखलाप्रतिबोधमपुनरुद्बोधं यथा तथा शायिनीम् । मृतामित्यर्थः। त्वामनु त्वया सह ॥ तृतीयार्थ इत्यनुशब्दस्य कर्मप्रवचनीययुक्ते द्वितीया ॥ शुचा शोकेन मृतेव न लक्ष्यत इति न। लक्ष्यत एवेत्यर्थः ॥ संभाव्यनिषेधनिवर्तनाय द्वौ प्रतिषेधौ ॥
कलमिति। त्रिदिवेति । युग्मम् । उभयोरेकान्वयः॥ अन्यभृतासु कोकिलासु कलं मधुरं भाषितं भाषणम् । कलहंसीषु विशिष्टहंसीषु मदालसं मन्थरं गतं