गमनम् । पृषतीषु हरिणीषु विलोलमीक्षितं चञ्चला दृष्टिः । पवनेन वायुनाधूतलतास्वीषकम्पितलतासु विभ्रमा विलासाः॥ इत्यमी पूर्वोक्ताः कलभाषणादयो गुणाः। एषु कोकिलादिस्थानेष्विति शेषः । त्रिदिवोत्सुकयापीह जीवन्त्येव स्वर्गं प्रति प्रस्थितयापि त्वया मामवेक्ष्य विरहासहं विचार्य सत्यं निहिताः। मत्प्राणधारणोपायतया स्थापिता इयर्थः । तव विरहे गुरुव्यथमतिदुःखं मे हृदयं मनोऽवलम्बितुं स्थापयितुं न क्षमा न शक्ताः । ते तु तत्संगम एव सुखकारिणः । नान्यथा । प्रत्युत प्राणानपहरन्तीति भावः॥
मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ ।
अविधाय विवाहसत्क्रियामनयोर्गम्यत इत्यसांप्रतम् ॥ ६१ ।।
मिथुनमिति ॥ ननु हे पिये, सहकारश्चूतविशेष: फलिनी प्रियंगुलता चेमौ त्वया मिथुनं परिकल्पितं मिथुनत्वेनाभ्यमानि । अनयोः फलिनीसहकारयोर्विवाहसक्रियां विवाहमङ्गलमविधायाकृत्वा गम्यत इत्यसांप्रतमयुक्तम् । मातृहीनानां न किंचित्सुखमस्तीति भावः ॥
कुसुमं कृतदो[१]हदस्त्वया यदशोकोऽयमुदीरयिष्यति ।
अलकाभरणं कथं नु तत्तव नेष्यामि निवापमाल्यताम् ॥ ६२॥
कुसुममिति ॥ वृक्षादिपोपकं दोहदम् । त्वया कृतं दोहदं पादताडनरूपं यस्य सोऽयमशोको यत्कुसुममुदीरयिष्यति प्रसविष्यते । तवालकानामाभरणमाभरणभूतं तत्कुसुमं कथं नु केन प्रकारेण निवापमाल्यतां दाहाञ्जलेरर्घ्यतां नेष्यामि। "निवापः पितृदानं स्यात्" इत्यमरः ॥
स्मरतेव सशब्दनूपुरं चरणानुग्रहमन्यदुर्लभम् ।
अमुना कुसुमाश्रुवर्षिणा त्वमशोकेन सुगात्रि शोच्यसे ॥६३॥
स्मरतेति ॥ अन्यदुर्लभम् । किंतु स्मर्तव्यमेवेत्यर्थः । सशब्दं ध्वनियुक्तं नूपुरं मञ्जीरं यस्य तं चरणेनानुग्रहं पादेन ताडनरूपं स्मरतेव चिन्तयतेव कुसुमान्येवाश्रूणि तर्षिणामुना पुरोवर्तिनाशोकेन । हे सुगात्रि ॥ "अङ्गगात्रकण्ठेभ्यश्च" इति वक्तव्याङीप् ॥ त्वं शोच्यसे॥
तव निःश्वसिता[२]नुकारिभिर्बकुलैरर्धचितां समं मया ।
असमाप्य विलासमेखलां किमिदं किंनरकण्ठि सुप्यते ॥६४॥
तवेति ॥ तव निःश्वसितानुकारिभिर्बकुलैर्वकुलकुसुमैर्मया समं सार्धमर्धचितामधु यथा तथा रचितां विलासमेखलामसमाप्यापूरयित्वा । किंनरस्य देवयोनि-