पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१७६

पुटमेतत् सुपुष्टितम्
( १७४ )
रघुवंशे

विशेषस्य कण्ठ इव कण्ठो यस्यास्तत्संबुद्धिर्हे किंनरकण्ठि ॥ "अङ्गगात्रकण्ठेभ्यश्च" इति ङीप् ॥ किमिदं सुप्यते निद्रा क्रियते ॥ “वचिस्वपि-" इत्यादिना संप्रसारणम् ॥ अनुचितमिदं स्वपनमित्यर्थः ॥

  समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयमात्मजः।
  [१]हमेकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुर:॥६५॥

 समेति ॥ सखीजनः समदुःखमसुखः । त्वद्दुःखेन दुःखी त्वत्सुखेन सुखीत्यर्थः । अयमात्मजो बालः प्रतिपचन्द्रनिभः । दर्शनीयो वर्धिष्णुश्चेत्यर्थः । प्रतिपच्छब्देन द्वितीया लक्ष्यते प्रतिपदि चन्द्रस्यादर्शनात् । अहमेकरसोऽभिन्नरागः ॥ “शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः इत्यमरः ॥ तथापि । जीवितसामग्रीसत्त्वेऽपीत्यर्थः । ते तव व्यवसायोऽस्मत्परित्यागरूपो व्यापारः प्रतिपत्त्या निश्चयेन निष्ठुर: क्रूरः ॥ “प्रतिपत्तिः पदमाप्तौ प्रकृतौ गौरवेऽपि च । प्रागल्भ्ये च प्रवोधे च" इति विश्वः ॥ स्मर्तुं न शक्यः किमुताधिकर्तुमिति भावः ॥

  धृतिरस्तमिता रतिश्चयुता विरतं गेयमृतुर्निरुत्सवः ।
  गतमाभरणप्रयोजनं परिशून्यं शयनीयमद्य मे ॥ ६६ ॥

 धृतिरिति ॥ अद्य मे धृतिधैर्यं प्रतीतिर्वास्तं नाशमिता । रतिः क्रीडा च्युता गता । गेयं गानं विरतम् । ऋतुर्वसन्तादिनिरुत्सवः । आभरणानां प्रयोजनं गतमपगतम् । शेतेऽस्मिन्निति शयनीयं तल्पम् ॥ “कृत्यल्युटो बहुलम्" इत्यधिकरणार्थेऽनीयर्प्रत्यय: ॥ परिशून्यम् । त्वां विना सर्वमपि निष्फलमिति भावः ।।

  गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ ।
  करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतम् ॥६७॥

 गृहिणीति ॥ त्वमेव गृहिणी दाराः । अनेन सर्वं कुटुम्बं त्वदाश्रयमिति भावः । सचिवो बुद्धिसहायो मन्त्री । सर्वो हितोपदेशस्त्वदायत्त इत्यनेनोच्यते । मिथो रहसि सखी नर्मसचिवः । सर्वोपभोगस्त्वदाश्रय इत्यमुना प्रकटितम् । ललिते मनोहरे कलाविधौ वादित्रादिचतुःषष्टिकलाप्रयोगे प्रियशिष्या । प्रियत्वं प्राज्ञत्वादिसभिसंधिः सर्वानन्दोऽनेन त्वन्निबन्धन इत्युद्धाटितम् । अतस्त्वां समष्टिरूपां हरतातएव करुणाविमुखेन कृपाशून्येन मृत्युना मे मत्संबन्धि किं वस्तु न हृतं वद । सर्वमपि हृतमित्यर्थः ॥

  मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे ।
  अनुपास्यसि बाष्पदूषितं प[२]रलोकोपनतं जलाञ्जलिम् ॥ ६८॥


  1. अथवा.
  2. परलोकोपनताम्,