पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
( १७५ )
अष्टमः सर्गः ।

 मदिरेति ॥ माद्यत्यनयेति मदिरा लोकप्रसिद्धा । तथापि “नार्यो मदिरलोचनाः" इत्यादिप्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे अक्षिणी यस्यास्तत्संबुद्धिर्हे मदिराक्षि । मदाननेनार्पितं रसवत्स्वादुतरं मधु मद्यं पीत्वा बाष्पषितमश्रुतप्तं परलोकोपनतं परलोकप्राप्तं मे जलाञ्जलिं तिलोदकाञ्जलिं कथं न्वन्वनन्तरं पास्यसि । तदनन्तमिदमनहमित्यर्थः । यथाह भट्टमल्लः-"अनुपानं हिमजलं यवगोधूमनिमिते । दनि मद्य विपे द्राक्षे पिष्टे मिष्टमयेऽपि च" इति । तच्चैहैव युज्यते । इदं तूष्णं लोकान्तरोपयोगि चेत्यायुर्वेद विरोधात्कथमनुपास्यसीति भावः ॥

  विभवेऽपि सति त्वया विना सुखमेतावदजस्य गण्यताम् ।
  अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥ ६९॥

 विभव इति ॥ विभव ऐश्वर्ये सत्यपि खया विनाजस्यैतावदेव सुखं गण्यताम् । यावत्त्वया मह भुक्तं ततोऽन्यन्न किंचिद्भविष्यतीयर्थः । कुतः । विलोभनान्तरविषयान्तरैरहतस्यानाकृष्टस्य मम सर्वे विषया भोगादयस्त्वदाश्रयास्त्वदधीनाः। त्वां विना मे न किंचिद्रोचत इत्यर्थः ।।

  विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति ।
  अकरोत्पृथिवीरुहानपि उतशाखारसवाष्पदू[१]षितान् ॥ ७० ॥

 विलपन्निति ॥ कोसलाधिपो&ज इति करुणः शोकरसः स एवार्थस्तेन ग्रथितं संबद्धं यथा तथा प्रियां प्रतीन्दुमतीमुद्दिश्य विलपन्पृथिवीरुहान्क्षानपि स्रुताः शाखारसा मकरन्दा एव बाष्पास्तैदूश्हितानकरोत् । अचेतनानप्यरोदयदित्यर्थः ॥

  अथ तस्य कथंचिदङ्कतः स्वजनस्ताम[२]पनीय सुन्दरीम् ।
  विससर्ज तै[३]दन्त्यमण्डनामनलाया[४]गुरुचन्दनिधसेगुरुचन्दनैधसे ॥७१॥

 अथेति ॥ अथ स्वजनो बन्धुवर्गस्तस्याजस्याङ्कत उत्सङ्गात्कथंचिदपनीय । तदिव्यकुसुममेवान्त्यं मण्डनमलंकारो यस्यास्ताम् । तां सुन्दरीमगुरूणि चन्दनान्येधांसीन्धनानि यस्य तस्मा अनलायाग्नये विससर्ज विसृष्टवान् ॥ "क्रियाग्रहणमपि कर्तव्यम्” इति क्रियामात्रप्रयोगे संप्रदानत्वाच्चतुर्थी ॥

  प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् ।
  न चकार शरीरमग्निसात्सह देव्या न तु जीविताशया॥७२॥

 प्रमदामिति ॥ नृपतिरजः सपि विद्वानपि शुचा शोकेन प्रमदामनु प्रमदया सह संस्थितो मृत इति वाच्यदर्शनाभिन्दादर्शनाद्देव्येन्दुमत्या सह शरीरमग्नि-


  1. दुर्दिनान्.
  2. अवतार्य.
  3. कृतान्त्यमण्डनाम्
  4. अगरु.