पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१७८

पुटमेतत् सुपुष्टितम्
( १७६ )
रघुवंशे

सादग्न्यधीनं न चकार ॥ "तदधीनवचने" इति सातिप्रत्ययः ॥ जीविताशया प्राणेच्छया तु नेति॥

  अथ तेन दशाहतः प[१]रे गुणशेषामु[२]पदिश्य भा[३]मिनीम् ।
  विदुषा विधयो महर्द्धयः पुर एवोपवने स[४]मापिताः ॥ ७३ ॥

 अथेति ॥ अथ विदुषा शास्त्रज्ञेन तेनाजेन । गुणा एव शेषा रूपादयो यस्यास्तां गुणशेषां भामिनीमिन्दुमतीमुपदिश्योद्दिश्य । दशानामह्नां समाहारो दशाहः।। 'तद्धितार्थ-" इत्यादिना समासः । समाहारस्यैकत्वादेकवचनम् । “राजाहःसखिभ्यष्टच्” इति टच् । “रात्राह्नाहाः पुंसि” इति पुंवत् । ततस्तसिल् ॥ तस्माद्दशाहतः पर ऊर्ध्वं कर्तव्या महर्द्धयो महासमृद्धयो विधयः क्रियाः पुरः पुर्या उपवन उद्यान एव समापिताः संपूर्णमनुष्ठिताः ॥ दशाहतः इत्यत्र “विप्र: शुध्येद्दशाहेन द्वादशाहेन भूमिपः" इति मनुवचनविरोधो नाशङ्कनीयः । तस्य निर्गुणक्षत्रियविषयत्वात् । गुणवत्क्षत्रियस्य तु दशाहेन शुद्धिमाह पराशरः- "क्षत्रियस्तु दशाहेन स्वधर्मनिरतः शुचिः" इति ॥ सूच्यतेऽस्यापि गुणवत्त्वं विदुषेत्यनेन ॥

  स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः ।
  परिवाहमिवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु ॥ ७४ ।।

 स इति ॥ तयेन्दुमत्या विना । क्षणदाया रात्रेरपायेऽपगमे यः शशाङ्कश्चन्द्रः स इव दृश्यत इति क्षणदापायशशाङ्कदर्शनः । प्रातःकालिकचन्द्र इव दृश्यमान इत्यर्थः ॥ दृश्यत इति कर्मार्थे ल्युट् ॥ सोऽजः पौरवधूमुखाश्रुषु स्वशुचः स्वशो- कस्य परिवाहं जलोच्छ्वासमिवावलोकयन् ॥ “जलोच्छ्वासाः परीवाहाः" इत्यम- रः॥ स्वदुःखपूरातिशयमिव पश्यन्पुरीं विवेश ॥ वधूग्रहणात्तस्यामिन्दुमत्यां स- ख्याभिमानादजसमानदुःखसूचकपरीवाहोक्तिर्निर्वहति ॥

  [५]थ तं सवनाय दीक्षितः प्रणिधानाद्गुरुरां[६]श्रमस्थितः ।
  [७]भिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयत् ॥७५॥

 अथेति ॥ अथ सवनाय यागाय दीक्षितो गुरुर्वसिष्ठ आश्रमे स्वकीयाश्रमे स्थितः सन् । तमजमभिषङ्गजडं दुःखमोहितं प्रणिधानाच्चित्तैकाग्रयाद्विजज्ञिवाञ्ज्ञातवान् ॥ " क्वसुश्च" इति क्वसुप्रत्ययः॥ इति वक्ष्यमाणप्रकारेण शिष्येणान्वबोध-

यत्किल ॥ बुधेर्ण्यन्ताण्णिचि लङ्॥


  1. परम् ; परा.
  2. अपदिश्य .
  3. गेहिनीम्.
  4. वितेनिरे.
  5. तमवेक्ष्य मखाय.
  6. आश्रमाश्रितः;
    आश्रमाश्रयः.
  7. अभिषङ्गिणमीश्वरं विशाम्.