पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१८

पुटमेतत् सुपुष्टितम्
( १६ )
रघुवंशे

“ यज्वा तु विधिनेष्टवान्” इत्यमरः ॥ “ सुयजोर्ङ्वनिप्” इति ङ्वनिप्प्रत्ययः ॥ आशिष आशीर्वादान् । अर्घः पूजाविधिः । तदर्थं द्रव्यमर्घ्य॑म् ॥ “पादार्घाभ्यां च” इति यत्प्रत्ययः ॥ “षट् तु त्रिष्वर्घ्यमर्घार्थे पाद्यं पादाय वारिणि” इत्यमरः ॥ अर्घ्यस्यानुपदमन्वक् । अर्घ्यस्वीकारानन्तरमित्यर्थः । प्रतिगृह्णन्तौ स्वीकुर्वन्तौ पदस्य पश्चादनुपदम् ॥ पश्चादर्थेऽव्ययीभावः ॥ “अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्” इत्यमरः ॥

  हैयंगवीनमादाय घोषवृद्धानुपस्थितान्[]
  नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥४५॥

 हैयंगवीनमिति ॥ ह्यस्तनगोदोहोद्भवं घृतं हैयंगवीनम् ॥ ह्यः पूर्वेद्युर्भवम् ।। “तत्तु हैयंगवीनं यद्ह्योगोदोहोद्भवं घृतम्” इत्यमरः ॥ “हैयंगवीनं संज्ञायाम्” इति निपातः । तत्सद्योघृतमादायोपस्थितान्घोषवृद्धान् ॥ घोष आभीरपल्ली स्यात्" इत्यमरः । वन्यानां मार्गशाखिनां नामधेयानि पृच्छन्तौ ॥"दुह्याच् — ” इत्यादिना पृच्छतेर्द्विकर्मकत्वम् ।। कुलकम् ॥

  काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेषयोः।
  हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥ ४६॥

 कापीति ॥ व्रजतोर्गच्छतोः शुद्धवेषयोरुज्ज्वलनेपथ्ययोस्तयोः सुदक्षिणादिलीपयोः । हिमनिर्मुक्तयोश्चित्राचन्द्रमसोरिव । योगे सति काप्यनिर्वाच्याभिख्या शोभासीत् ॥ “अभिख्या नामशोभयोः” इत्यमरः॥ “आतश्चोपसर्गे” इत्यङ्प्रत्ययः ॥ चित्रा नक्षत्रविशेषः। शिशिरापगमे चैत्र्यां चित्रापूर्णचन्द्रमसोरिवेत्यर्थः ॥

  तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः ।
  अपि लङ्घितमध्वानं बुबुधे न बुधोपमः॥४७॥

 तत्तदिति ॥ प्रियं दर्शनं स्वकर्मकं यस्यासौ प्रियदर्शनः । योग्यदर्शनीय इत्यर्थः । भूमिपतिः पत्न्यै तत्तदद्भुतं वस्तु दर्शयँल्लङ्घितमतिवाहितमप्यध्वानं न बुबुधे न ज्ञातवान् । बुधः सौम्य उपमोपमानं यस्येति विग्रहः ॥ इदं विशेषणं तत्तदर्शयन्नित्युपयोगितयैवास्य ज्ञातृत्वसूचनार्थम् ॥

  स दुष्पापयशाः प्रापदाश्रमं श्रान्तवाहनः ।
  सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥४८॥



  1. उपागतान्.