स इति ॥स मुनिः। शमः शान्तिरेव वेला मर्यादा । यस्याः प्रलयोर्मिणा प्रलयकालतरंगेण । शमविघातकेनेत्यर्थः ॥ “अब्ध्यम्बुविकृतौ वेला कालमर्यादयोरपि" इत्यमरः ॥ तपसः प्रतिबन्धेन विघ्नेन यो मन्युः क्रोधस्तेन हेतुना। प्रमुखेऽग्र आविष्कृतचारुविभ्रमां प्रकाशितमनोहरविलासां तां हरिणीं भुवि भूलोके मानुषी मनुष्यस्त्री भवेत्यशपच्छशाप ॥
भगवन्परवानयं जनः प्रतिकूलाचरितं क्ष[४]मस्व मे ।
इति चोपनतां क्षितिस्पृशं कृतवाना सुरपुष्पदर्शनात् ॥ ८१ ॥
भगवन्निति ॥ हे भगवन्महर्षे, अयं जनः । परोऽस्यास्तीति स्वामित्वेन परवान्पराधीनः । अयमित्यात्मनिर्देशः। अहं पराधीनेत्यर्थः । मे मम प्रतिकूलाचरितमपराधं क्षमस्वेत्यनेन प्रकारेणोपनतां शरणागतां च हरिणीमा सुरपुष्पदर्शनात्सुरपुष्पदर्शनपर्यन्तम् । क्षितिं स्पृशतीति क्षितिस्पृक्तां क्षितिस्पृशं मानुषीं कृतवानकरोत् । दिव्यपुष्पदर्शनं शापावधिरित्यनुगृहीतवानित्यर्थः ॥
क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा।
उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम् ।। ८२ ॥
क्रथेति॥ क्रथकैशिकानां राज्ञां वंशे संभवो यस्याः सा हरिणी तव महिष्यभिषिक्ता स्त्री ॥ “कृताभिषेका महिषी" इत्यमरः ॥ भूत्वा चिराय दिवः स्वर्गाच्युतं पतितं शापनिवृत्तिकारणं सुरपुष्परूपमुपलब्धवती विवशा। अभूदिति शेषः। मृतेत्यर्थः॥
तदलं तदपायचिन्तया विपदुत्पत्तिमतामुपस्थिता ।
वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः॥ ८३॥
तदिति॥तत्तस्मात्तस्या अपायचिन्तयालम्। तस्या मरणं न चिन्त्यमित्यर्थः। निषेधक्रियां प्रति करणत्वाच्चिन्तयेति तृतीया॥ कुतो न चिन्त्यमत आह-उत्पत्तिमतां जन्मवतां विपद्विपत्तिरुपस्थिता सिद्धा । जातस्य हि ध्रुवो मृत्युरित्यर्थः ॥ तथापि कलत्ररहितस्य किं जीवितेन। तत्राह--त्वयेयं वसुधा भूमिरवेक्ष्यतां पाल्यताम् । हि यस्मान्नृपा वसुमत्या पृथिव्या कलत्रिणः कलत्रवन्तः । अतो न शोचितव्यमित्यर्थः॥