उदय इति ॥ उदयेऽभ्युदये सति मदेन यद्वाच्यं निन्दादुःखं तदुज्झता परिहरता सत्यपि मदहेतावमाद्यता त्वया यदात्मवदध्यात्मप्रचुरं श्रुतं शास्त्रम् । तज्जनितं ज्ञानमिति यावत् । आविष्कृतं प्रकाशितम् । तच्छ्रुतं मनसो ज्वरे संताप उपस्थिते प्राप्तेऽक्लीबतया धैर्येण लिङ्गेन पुनः प्रकाश्यताम् । विदुषा सर्वास्ववस्थास्वपि धीरेण भवितव्यमित्यर्थः॥
इतोऽपि न रोदितव्यमित्याह-
रुदता कुत एव सा पुनर्भवता नानुमृता[१]पि लभ्यते ।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ।। ८५॥
रुदतेति ॥ रुदता भवता सा कुत एव लभ्यते । न लभ्यत एव ॥ अनुम्रियत इत्यनुमृत् ॥ क्विप् ॥ तेनानुमृतानुमृतवतापि भवता पुनर्न लभ्यते । कथं न लभ्यत इत्याह- परलोकजुषां लोकान्तरभाजां देहिनाम् । गम्यन्त इति गतयो गम्यस्थानानि स्वकर्मभिः पूर्वाचरितपुण्यपापैर्भिन्नपथाः पृथक्कृतमार्गा हि ॥ परत्रापि स्वस्वधर्मानुरूपफलभोगाय भिन्नदेहगमनान्न मृतेनापि लभ्यत इत्यर्थः ॥
अपशोकमनाः कुटुम्बिनीमनुगृह्णीष्व निवापदत्तिभिः ।
खजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥ ८६ ॥
अपेति ॥ किंत्वपशोकमना निर्दुःखचित्तः सन्कुटुम्बिनीं पत्नीं निवापदत्तिभिः पिण्डोदकादिदानैरनुगृण्हीष्व । तर्पयेत्यर्थः । अन्यथा दोषमाह-अतिसंततमविच्छिन्नं स्वजनानां बन्धूनाम् ॥ “बन्धुस्वस्वजनाः समाः इत्यमरः ॥ अश्रु। कर्तृ । प्रेतं मृतं दहतीति प्रचक्षते मन्वादयः किल । अत्र याज्ञवल्क्यः- "श्लेष्माश्रु बन्धुभिर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः" इति ॥
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः।
क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥ ८७ ॥
मरणमिति ॥ शरीरिणां मरणं प्रकृतिः स्वभावः । ध्रुवमित्यर्थः । जीवितं विकृतिर्यादृच्छिकं बुधैरुच्यते । एवं स्थिते जन्तुः प्राणी क्षणमपि ॥ अत्यन्तसंयोगे द्वितीया ॥ श्वसञ्जीवन्नवतिष्ठते यद्यसौ क्षणजीवी लाभवान्ननु । जीवने यथालाभं संतोष्टव्यम् । अलभ्यलाभात् । मरणे तु न शोचितव्यम्। अस्य स्वाभाव्यादिति भावः।।
अ[२]वगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् ।
स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ८८॥
अवेति ॥ मूढचेतनो भ्रान्तबुद्धिः प्रियनाशमिष्टनाशं हृद्यर्पितं निखातं शल्यं