पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१८२

पुटमेतत् सुपुष्टितम्
( १८० )
रघुवंशे

शङ्कुमवगच्छति मन्यते । स्थिरधीर्विद्वांस्तु तदेव शल्यं समुद्धृतमुत्खातं मन्यते । प्रियनाशे सतीति शेषः ॥ कुतः । कुशलद्वारतया । प्रियनाशस्य मोक्षोपायतयेत्यर्थः । विषयलाभाविनाशयोर्यथाक्रमं हिताहितसाधनत्वाभिमानः पामराणाम् । विपरीतं तु विपश्चितामिति भावः ॥

  खशरीरशरीरिणावपि श्रु[१]तसंयोगविपर्ययौ यदा।
  विरहः कि[२]मिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् ॥ ८९॥

 स्वेति ॥ स्वस्थ शरीरशरीरिणौ देहात्मानावपि यदा यतः श्रुतौ श्रुत्यवगतौ संयोगविपर्ययौ संयोगवियोगौ ययोस्तौ तथोक्तौ । तदा बाह्यैर्विषयैः पुत्रमित्रकलत्रादिभिर्विरहो विपश्चितं विद्वांसं किमिवानुतापयेत्त्वं वद । न किंचिदित्यर्थः । अथवास्वशब्दस्य शरीरेणैव संबन्धः ॥

  न पृथग्जनवच्छुचो वशं वशिनामुत्तम गन्तुमर्हसि ।
  द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः॥९०॥

 नेति ॥ हे वशिनामुत्तम जितेन्द्रियवर्य, पृथग्जनवत्पामरजनवच्छुचः शोकस्य वशं गन्तुं नार्हसि । तथाहि । द्रुमसानुमतां तरुशिखरिणां किमन्तरं को विशेषः । वायौ सति द्वितयेऽपि द्विप्रकारा अपि ॥ “प्रथमचरम-" इत्यादिना जसि वि- भाषया सर्वनामसंज्ञा ॥ ते द्रुमसानुमन्तश्चलाश्चञ्चला यदि । सानुमतामपि चलने दुमवत्तेषामप्यचलसंज्ञा न स्यादित्यर्थः ।।

  स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् ।
  तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः॥९१॥

 स इति ॥ सोऽज उदारमतेर्विनेतुर्गुरोर्वसिष्ठस्य वचस्तच्छिष्यमुखेरितं तथेति प्रतिगृह्याङ्गीकृत्य मुनिं वसिष्ठशिष्यं विससर्ज प्रेषयामास । किंतु तद्वचः शोकघने दुःखसान्द्रेऽस्याजस्य हृद्यलब्धपदमप्राप्तावकाशं सद्गुरोर्वसिष्ठस्यान्तिकं प्रतियात. मिव प्रतिनिवृत्तं किमु । इत्युत्प्रेक्षा ॥ तोटकवृत्तमेतत्- “इह तोटकमम्बुधिसै: प्रथितम्” इति तल्लक्षणम् ॥

  तेनाष्टौ परिगमिताः समाः कथंचिद्बालत्वादवितथसूनृतेन सूनोः।
  सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्व॥९२॥

 तेनेति ॥ अवितथं यथार्थं सूनृतं पियवचनं यस्य तेनाजेन । सुनोः पुत्रस्य बालत्वात् । राज्याक्षमत्वादित्यर्थः । प्रियाया इन्दुमत्या: सादृश्यं वस्त्वन्तरगतमाकारसाम्यम् । प्रतिकृतिश्चित्रम् । तयोर्दर्शनैः स्वप्नेषु क्षणिकाः क्षणभङ्गुरा ये समागमोत्सवास्तैश्च ।

कथंचित्कृच्छ्रेण । अष्टौ समा वत्सराः॥"संवत्सरो वत्सरोऽब्दो


  1. स्मृत; स्मृति; श्रित.
  2. कम्.