पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१८४

पुटमेतत् सुपुष्टितम्
( १८२ )
रघुवंशे

  ती[]र्थे तोयव्यतिकरभवे जह्नुकन्यासरय्वो-
   र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः ।
  पू[]र्वाकाराधिकतररुचा संगतः कान्तयासौ
   लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥ ९५॥

 तीर्थ इति ॥ असावजो जह्नुकन्यासरय्वोस्तोयानां जलानां व्यतिकरेण संभेदेन भवे तीर्थे गङ्गासरयूसंगमे देहत्यागात्सद्य एवामरणगणनायां लेख्यं लेखनम्।। "तयोरेव कृत्यक्तखलर्था:" इति भावार्थे ण्यत्प्रत्ययः॥ आसाद्य प्राप्य । पूर्वस्मादाकारादधिकतरा रुग्यस्यास्तया कान्तया रमण्या संगतः सन् । नन्दनस्येन्द्रोद्यानस्याभ्यन्तरेष्वन्तर्वर्तिषु लीलागारेषु क्रीडाभवनेषु पुनररमत ॥ “यथाकथंचित्तीर्थेऽस्मिन्देहत्यागं करोति यः । तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि " इति स्कान्दे ॥ मन्दाक्रान्ताछन्दः । तल्लक्षणम्- “मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत्" इति ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
अजविलापो नामाष्टमः सर्गः ।


नवमः सर्गः ।


    एकलोचनमेकार्धे सार्धलोचनमन्यतः ।
    नीलार्धं नीलकण्ठार्धं महः किमपि मन्महे ।।

  पितुरनन्तरमुत्तरकोसलान्समधिगम्य समाधिजितेन्द्रियः ।
  दशरथः प्रशशास महारथो यमवतामवतां च धुरि स्थितः॥१॥

 पितुरिति ॥ समाधिना संयमेन जितेन्द्रियः॥ “समाधिर्नियमे ध्याने" इति कोशः॥ यमवतां संयमिनामवतां रक्षतां राज्ञां च धुर्यग्रे स्थितो महारथः ॥ “एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च स महारथ उच्यते" इति ॥ दशरथः पितुरनन्तरमुत्तरकोसलाञ्नपदान्समधिगम्य प्रशशास ॥ अत्र मनुः- "क्षत्रियस्य परो धर्मः प्रजानां परिपालनम्" इति ॥ द्रुतविलम्बितमेतद्वृत्तम् । तल्लक्षणम्- “द्रुतविलम्बितमाह नभौ भरौ" इति ॥


  1. तोये तीर्थव्यतिकरभवे.
  2. पूर्वाकाराधिकचतुरया (-पूर्वस्मादाकारादधिकं चतुरया सुभगया).