अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलमात्मकुलोचितम् ।
अभवदस्य ततो [१]गुणवत्तरं सनगरं नगरन्ध्रकरौजसः॥२॥
अधिगतमिति ॥ अधिगतं प्राप्तमात्मकुलोचितं स्वकुलागतं सनगरं नगरजनसहितं प्रकृतिमण्डलं जानपदमण्डलम् । अत्र प्रकृतिशब्देन प्रजामात्रवाचिना नगरशब्दयोगाद्गोबलीवर्दन्यायेन जानपदमात्रमुच्यते । यद्यस्माद्विधिवद्यथाशास्त्रमपालयत् । ततो हेतोः । रन्ध्रं करोतीति रन्ध्रकरः । रन्ध्रहेतुरित्यर्थः ॥ “ कृञो हेतुताच्छील्यानुलोम्येषु" इति टप्रत्ययः ॥ नगस्य रन्ध्रकरो नगरन्ध्रकरः कुमारः ॥“कुमारः क्रौञ्चदारणः” इत्यमरः ॥ तदोजसस्तत्तुल्यवलस्यास्य दशरथस्य गुणवत्तरमभवत् । तत्पौरजानपदमण्डलं तस्मिन्नतीवासक्तमभूदित्यर्थः ॥
उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् ।
बलनिषूदनमर्थपतिं च तं श्रमनुदं मनुदण्डधरान्वयम् ॥ ३॥
उभयमिति ॥ मनस ईषिणो मनीषिणो विद्वांसः ॥ पृषोदरादित्वात्साधुः ॥ वलनिषूदनमिन्द्रम् । दण्डस्य धरो राजा मनुरिति यो दण्डधरः स एवान्वयः कूटस्थो यस्य तमर्थपतिं दशरथं चेत्युभयमेव । समयेऽवसरे जलं धनं च वर्षतीति समयवर्षी । तस्य भावः समयवर्षिता । तया हेतुना कृतकर्मणां स्वकर्मकारिणाम् । नुदतीति नुदम् ॥ “इगुपधज्ञाप्रीकिरः कः” इति कप्रत्ययः॥ श्रमस्य नुदं श्रमनुदम् ॥ किवन्तत्वे नपुंसकलिङ्गेनोभयशब्देन सामानाधिकरण्यं न स्यात् ॥ इति वदन्ति ॥
जनपदे न गदः पदमादधावभिभवः कुत एव सपनजः ।
[२]क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे ॥ ४ ॥
जनपद इति ॥ शमरते शान्तिपरेऽमरतेजस्यजनन्दने दशरथे पार्थिवे पृथिव्या ईश्वरे सति ॥ “ तस्येश्वरः” इत्यण्प्रत्ययः ॥ जनपदे देशे गदो व्याधिः॥ “ उपतापरोगव्याधिगदामयाः” इत्यमरः ॥ पदं नादधौ । नाचक्रामेत्यर्थः ॥ सपत्नजः शत्रुजन्योऽभिभवः कुत एव । असंभावित एवेत्यर्थः ॥ क्षितिः फलवत्यभूच्च॥
दशदिगन्तजिता रघुणा यथा श्रियमपुष्यदजेन ततः परम् ।
तमधिगम्य तथैव पुनर्बभौ न न महीनमहीनपराक्रमम् ॥५॥
दशेति ॥ मही । दशदिगन्ताञ्जितवानिति दशदिगन्तजित् । तेन रघुणा यथा
श्रियं कान्तिमपुष्यत् । ततः परं रघोरनन्तरमजेन च यथा श्रियमपुष्यत् । तथैवाहीनपराक्रम न हीनः पराक्रमो यस्य तमन्यूनपराक्रमं तं दशरथमिनं स्वामिनमधिगम्य पुनर्न बभाविति न । बभावेवेत्यर्थः ॥ द्वौ नञौ प्रकृतमर्थं गमयतः ॥