पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१८८

पुटमेतत् सुपुष्टितम्
( १८६ )
रघुवंशे

 निववृत इति॥ स दशरथः सचिवैः संप्रयोजितैः कारिता बालसुतानामञ्जलयो यैस्तान् । स्वयमसंमुखागतानित्यर्थः । अनलकान्हतभर्तृकतयालकसंस्कारशून्यान्सपत्नपरिग्रहाञ्छत्रुपत्नीः ॥“पत्नीपरिजनादानमूलशापाः परिग्रहाः” इत्यमरः ॥ समनुकम्प्यानुगृह्यालकानवमामलकानगरादन्यूनां पुरीमयोध्यां प्रति महार्णवानां रोधसः पर्यन्तान्निववृते । शरणागतवत्सल इति भावः ॥

  उपगतोऽपि च मण्डलनाभितामनुदितान्यसितातपवारणः।
  श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः॥१५॥

 उपगत इति ॥ अनुदितमनुच्छ्रितमन्यत्स्वच्छत्रातिरिक्तं सितातपवारणं श्वेतच्छत्रं यस्य सः। अनलसोमयोरग्निचन्द्रयोः । समे द्युती तेजःकान्ती यस्य स तथोक्तः। श्रियं लक्ष्मीं रन्ध्रेऽन्यायालस्यादिरूपे छले चलां चञ्चलामवेक्ष्यावलोक्य । श्रीर्हि केनचन्मिषेण पुमांसं परिहरति । स दशरथो मण्डलस्य नाभितां द्वादशराजमण्डलस्य प्रधानमहीपतित्वमुपगतोऽपि । चक्रवर्ती सन्नपीत्यर्थः ॥ “अथ नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका । रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः । आद्यक्षत्रियभेदे तु मतो मुख्यमहीपतौ” इति केशवः ॥ अनलसोऽप्रमत्तोऽभूत्॥ “अजितमस्ति नृपास्पदमिति” इति पाठान्तरेऽजितं नृपास्पदमस्तीति बुद्धयानलसोधऽप्रमत्तोऽभूत् । विजितनिखिलजेतव्योऽपि पुनर्जेतव्यान्तरवानिव जागरूक एवावतिष्ठतेत्यर्थः॥द्वादशराजमण्डलं तु कामन्दकेनोक्तम्- “अरिमित्रमरेर्मित्रं मित्र मित्रमतः परम् । तथारिमित्रमित्रं च विजिगीषोः पुरःसराः। पार्ष्णिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम् । आसारावनयोश्चैव विजिगीषोस्तु पृष्ठतः । अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः । अनुग्रहे संहतयोः समर्थो व्यस्तयोर्वधे । मण्डलाद्बहिरेतेषामुदासीनो बलाधिकः । अनुग्रहे संहतानां व्यस्तानां च वधे प्रभुः” इति । “अरिमित्रादयः पञ्च विजिगीषोः पुरःसराः । पार्ष्णिग्राहाक्रन्दपार्ष्णिग्राहासाराक्रन्दासाराः" इति पृष्ठतश्चत्वारः । मध्यमोदासीनौ द्वौ विजिगीषुरेक इत्येवं द्वादशराजमण्डलम् । तत्रोदासीनमध्यमोत्तरश्चक्रवर्ती । दशरथश्चैतादृगिति तात्पर्यार्थः।।

  तमपहाय []ककुत्स्थकुलोद्भवं पुरुष[]मात्मभवं च पतिव्रता ।
  नृपतिमन्यमसेवत देवता सकमला कमलाघवमर्थिषु ॥ १६ ॥

 तमिति ॥ पत्यौ व्रतं नियमो यस्याः सा पतिव्रता सकमला कमलहस्ता देवता लक्ष्मीरर्थिथषु विषयेऽलाघवं लघुत्वरहितम् । अपराङ्मुखमित्यर्थः । ककुत्स्थकुलोद्भवं तं दशरयमात्मभवं पुरुषं विष्णुं चापहाय त्यक्ता । अन्यं कं नृपतिमसेवत । कमपि नासेवतेत्यर्थः । विष्णाविव विष्णुतुल्ये तस्मिन्नपि श्रीः स्थिराभूदित्यर्थः ।


  1. ककुत्स्थकुलोद्वहम्.
  2. आत्मभुवम्.