पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१८९

पुटमेतत् सुपुष्टितम्
( १८७ )
नवमः सर्गः ।

  तमलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः।
  []गधकोसलकेकयशासिनां दुहितरोऽहितरोपितमार्गणम्।।१७॥

 तमिति ॥ पतिरेव देवता यासां ताः पतिदेवताः पतिव्रताः। मगधाश्च कोसलाश्च केकयाश्च ताञ्जनपदाञ्छासतीति तच्छासिनः । तेषां राज्ञां दुहितरः पुत्र्यः।सुमित्राकौसल्याकैकेय्य इत्यर्थः । अत्र क्रमो न विवक्षितः। अहितरोपितमार्गणं शत्रुनिखातशरम् ॥ “कदम्बमार्गणशराः” इत्यमरः॥ तं दशरथं शिखरिणां क्ष्माभृतां दुहितरः ।। आ समन्तादपगच्छन्तीति । अथवा । “आपेनाप्संवन्धिना वेगेन गच्छन्तीत्यापगाः” इति क्षीरस्वामी ॥ नद्यः सागरमिव । पति भर्तारमलभन्त प्रापुः॥

  प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः।
  उपगतो विनिनोषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः।।१८॥

 प्रियतमाभिरिति॥ अरीन्घ्नन्तीत्यरिहणो रिपुघ्नाः ॥ हन्तेः क्विप् । “ब्रह्मभ्रूणवृत्रेषु क्विप्" इति नियमस्य प्रायिकत्वात् । यथाह न्यासकारः- “प्रायिकश्चायं नियमः । क्वचिदन्यस्मिन्नप्युपपदे दृश्यते । मधुहा । प्रायिकत्वं च वक्ष्यमाणस्य बहुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यते” इति ॥ तेषु योगेषूपायेषु विचक्षणो दक्षः ॥ “योगः संनहनोपायध्यानसंगतियुक्तिषु” इत्यमरः॥ इन्द्रेऽपि योज्यमेतत् । असौ दशरथस्तिसृभिः प्रियतमाभिः सह । प्रजा विनिनीषुर्विनेतुमिच्छुस्तिसृभिः शक्तिभिः प्रभुमन्त्रोत्साहशक्तिभिरेव सह भुवमुपगतो हरिहय इन्द्र इव । बभौ ॥

  स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य []महारथः ।
  स्वभुजवीर्यमगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः ॥ १९॥

 स इति॥ महारथः स दशरथः संयुगमूर्ध्नि रणाङ्गणे मघवत इन्द्रस्य सहायतां प्रतिपद्य प्राप्य शरैरवधूतभया निवर्तितत्रासाः सुरवधूरुच्छ्रितं स्वभुजवीर्यमगापयत्किल खलु ॥ गायतेः शब्दकर्मत्वात् “गतिबुद्धि-” इत्यादिना सुरवधूनामपिकर्मत्वम् ॥

  ऋतुषु तेन विसर्जितमौलिना भुजसमात्दृतदिग्वसुना कृताः।
  कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसासरयूतटाः ॥२०॥

 क्रतुष्विति ॥ क्रतुष्वश्वमेधेषु विसर्जितमौलिनावरोपितकिरीटेन ॥ “यावद्यज्ञमध्वर्युरेव राजा भवति" इति राज्ञश्चिह्नत्यागविधानादित्यभिप्रायः ॥“मौलिः किरीटे धम्मिल्ले” इति विश्वः॥ भुजसमाहृतदिग्वसुना भुजार्जितदिगन्तसंपदा ॥अनेन क्षत्रियस्य विजितत्वमुक्तम् । नियमार्जितधनत्वं सद्विनियोगकारित्वं च सूच्यते ॥

वितमसा तमोगुणरहितेन तेन दशरथेन । तमसा च सरयूश्च नद्यौ। तयोस्तटाः


  1. मगधकोसलकैकयशासिनाम्; मलयकोसलकेकयशासिनाम्
  2. महायशाः