पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१९०

पुटमेतत् सुपुष्टितम्
( १८८ )
रघुवंशे

कनकयूपानां समुच्छ्रयेण समुन्नमनेन शोभिनः कृताः॥ कनकमयत्वं च यूपानां शोभार्थं विध्यभावात् ॥ “हेमयूपस्तु शोभिकः” इति यादवः ॥

  अजिनदण्डभृतं[] कुशमेखलां []यतगिरं मृगशृङ्गपरिग्रहाम् ।
  अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदीश्वरः॥ २१ ॥

 अजिनेति ॥ ईश्वरो भगवानष्टमूर्तिरजिनं कृष्णाजिनं दण्डमौदुम्बरं बिभर्तीति तामजिनदण्डभृतम् ॥ “कृष्णाजिनं दीक्षयति । औदुम्बरं दीक्षितदण्डं यजमानाय प्रयच्छति” इति वचनात् ॥ कुशमयी मेखला यस्यास्तां कुशमेखलाम् । शरमयी मौञ्जी वा मेखला । तया यजमानं दीक्षयतीति विधानात् ॥ प्रकृते कुशग्रहणं कचित्प्रतिनिधिदर्शनात्कृतम् ॥ यतगिरं वाचंयमाम् ॥ “वाचं यच्छति” इति श्रुतेः ॥ मृगशृङ्गं परिग्रहः कण्डूयनसाधनं यस्यास्ताम् ॥ “कृष्णविषाणया कण्डूयते” इति श्रुतेः ॥ अध्वरदीक्षितां संस्कारविशेषयुक्तां तनुं दाशरथीमधिवसन्नधितिष्ठन्सन् । असमा भासो दीप्तयो यस्मिन्कर्मणि तद्यथा तथा । अभासयद्भासयति स्म ॥

  अवभृथप्रयतो []नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः ।
  नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥ २२ ॥

 अवभृथेति ॥ अवभृथेन प्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितो देवसभाधिष्ठानार्हः स दशरथ उन्नतं शिरो वनमुचे जलवर्षिणे ॥ “जलं नीरं वनं सत्त्वम्” इति शाश्वतः ॥ नमुचेररये केवलमिन्द्रायैव नमयति स्म । न कस्मैचिदन्यस्मै मानुषायेत्यर्थः ॥

  असकृदेक[]रथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता।
  दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥२३॥

 असकृदिति ॥ एकरथेनाद्वितीयरथेन तरस्विना बलवता हरिहयस्येन्द्रस्याग्रसरेण धनुर्भृता दशरथेनासकृद्बहुशो दिनकरस्याभिमुखाः । अभिमुखस्थिता इत्यर्थः। रणरेणवः सुरद्विषां दैत्यानां रुधिरेण रुरुधिरे निवारिताः ॥

  अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् ।
  यमकुबेरजलेश्वर[]वज्रिणां समधुरं मधुरञ्चितविक्रमम् ॥ २४ ॥

 अथेति ॥अथ यमकुवेरजलेश्वरवज्रिणां धर्मराजधनदवरुणामरेन्द्राणां समा धूर्भारो यस्य स समधुरः।

माध्यस्थवितरणसंनियमनैश्वर्यैस्तुल्यकक्ष इत्यर्थः। “ऋपूरब्धूः-” इत्यादिना समासान्तोऽच्प्रत्ययः ॥ तं समधुरम् । अञ्चितविक्रमं


  1. भृताम्
  2. जितगिरम्
  3. विजितेन्द्रियः; अपि जितेन्द्रियः.
  4. एव हितेन
  5. वज्रिणम