मशोकतरोः केवलं कुसुममेव स्मरदीपनमुद्दीपनं न । किंतु विलासिनां मदयिता मदजनको दयिताश्रवणार्पितः किसलयप्रसवोऽपिपल्लवसंतानोऽपि स्मरदीपनोऽभवत् ॥
विरचिता मधुनोपवनश्रियामभिनवा इव पत्रविशेषकाः।
मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः॥२९॥
विरचिता इति ॥ मधुना वसन्तेन विरचिता उपवनश्रियामभिनवाः पत्रविशेषकाः पत्ररचना इव स्थिता मधूनां मकरन्दानां दाने विशारदाश्चतुराः कुरबकास्तरवो मधुलिहां मधुपानां रवकारणतां ययुः ॥ भृङ्गाः कुरबकाणां मधूनि पीत्वा जगुरित्यर्थः ॥ दानशौण्डानर्थिजनाः स्तुवन्तीति भावः ॥
सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः ।
मधुकरैरकरोन्मधुलोलुपैर्बकुलमाकुलमायतपङ्क्तिभिः॥ ३०॥
सुवदनति ॥ सुवदनावदनासवेन कान्तामुखमद्येन संभृतो जनितः॥ तत्तस्य दोहदमिति प्रसिद्धिः ॥ तस्यासवस्यानुवादी सदृशो गुणो यस्य तदनुवादिगुणः कुमुमोद्गमः । कर्ता । मधुलोलुपैरायतपङ्क्तिभिर्दीर्घपङ्क्तिभिर्मधुकरैर्मधुपैः । करणैः । बकुलं बकुलवृक्षमाकुलमकरोत् ॥
उपहितं शिशिरापगमश्रिया मुकुलजालम[१]शोभत किंशुके।
प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया ॥३१॥
उपहितमिति ॥ शिशिरापगमश्रिया वसन्तलक्ष्म्या किंशुके पलाशवृक्षे ॥ “पलाशः किंशुकः पर्णः” इत्यमरः ॥ उपहितं दत्तं मुकुलजालं कुड्भलसंहतिः । मदेन यापितलज्जयापसारितत्रपया प्रमदया प्रणयिनि प्रियतम उपहितं नखक्षतमेव मण्डनं तदिव । अशोभत ॥
व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलम् ।
न खलु तावदशेषमपोहितुं रविरलं विरलं कृतवान्हिमम् ॥३२॥
व्रणेति ॥ व्रणैर्दन्तक्षतैर्गुरुभिर्दुर्धरैः प्रमदानामधरैरधरोष्ठैर्दुःसहं हिमस्य व्यथाकरत्वादसह्यम् । जघनेषु निर्विषयीकृता निरवकाशीकृता मेखला येन तत् । शैत्या-
२९-३० श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--
दशनचन्द्रिकया व्यवभासितं हसितमासवगन्धि मधोरिव ।
तिलकपुष्पमसेव्यत षट्पदैः शुचिरसं चिरसंचितमोप्सुभिः ।।
३०-३१ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते-
गमयितुं प्रभुरेष सुखेन मा न महतीं बत पान्थवधूजनः।
इति दयति इवाभवदायता न रजनी रजनीशवती मधौ।।
- ↑ अरोचत.