पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१९३

पुटमेतत् सुपुष्टितम्
( १९१ )
नवमः सर्गः ।

त्त्याजितमेखलमित्यर्थः । एवंभूतं हिमं रविस्तावदा वसन्तादशेषं निःशेषं यथा तथापोहितुं निरसितुं नालं खलु न शक्तो हि । किंतु विरलं कृतवांस्तनूचकार ॥

  अभिनयान्परिचेतुमिवोद्यता मलयमारुतकम्पितपल्लवा ।
  अमदयत्सहकारलता मनः सकलिका कलिकामजितामपि ॥ ३३

 अभिनयानिति ॥अत्र चूतलताया नर्तकीसमाधिरभिधीयते । अभिनयानर्थव्यञ्जकान्व्यापारान् ॥ "व्यञ्जकाभिनयौ समौ" इत्यमरः ॥ परिचेतुमभ्यसितुमुद्यतेव स्थिता ॥ कुतः । मलयमारुतेन कम्पितपल्लवा । पल्लवशब्देन हस्तो गम्यते । सकलिका सकोरका । "कलिका कोरकः पुमान्" इत्यमरः ॥ सहकारलता । कलिः कलहो द्वेष उच्यते ॥ "कलिः स्यात्कलहे शूरे कलिरन्त्ययुगे युधि" इति विश्वः ॥ कामो रागः । तज्जितामपि । जितरागद्वेषाणामपीत्यर्थः । मनोऽमदयत् ॥

  प्रथममन्यभूताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः ।
  सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु ॥ ३४ ॥

 प्रथममिति ॥ सुरभिर्गन्धो यासां तासु सुरभिगन्धिषु ॥ "गन्धस्य-" इत्यादिनेकारः । कुसुमान्यासां संजातानि कुसुमिताः । तासु वनराजिषु वनपङ्क्तिषु । अन्यभृताभिः कोकिलाभिः प्रथमं प्रारम्भेषूदीरिता उक्ता अतएव मिताः परिमिता गिर आलापाः । प्रविरला मौग्ध्यात्स्तोकोक्ता मुग्धवधूनां कथा वाच इव । शुश्रुविरे श्रुताः ॥

  श्रुतिसुखभ्रमरस्वनगीतयः कुसुमकोमलदन्तरुचो बभुः ।
  उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः ॥ ३५ ॥

 श्रुतीति ॥श्रुतिसुखाः कर्णमधुरा भ्रमरस्वना एव गीतयो यासां ताः । कुसुमान्येव कोमला दन्तरुचो दन्तकान्तयो यासां ताः ॥ अनेन सस्मितत्वं विवक्षितम् ॥ उपवनान्तलताः पवनेनाहतैः कम्पितैः किसलयैः सलयैः साभिनयैः ॥ लयशब्देन लयानुगतोऽभिनयो लक्ष्यते । उपवनान्ते पवनाहतैरिति सक्रियत्वाभिधानात् ॥ पाणिभिरिव बभुः । अनेन लतानां नर्तकीसाम्यं गम्यते ॥


३२-३३ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते--

 परभृतां मदनक्षतचेतसां प्रियसखी लघुवागिव योषिताम् ।
प्रियतमानकरोत्कलहान्तरे मृदुरवा दुरवाप्तसमागमान् ॥

३५-३६ श्लोकयोर्मध्ये इमौ श्लोकौ दृश्येते--

 अनलसान्यभृतानलसान्मनः कमलधूलिभृता मदनेरिता ।
कुसुमभारनताध्वगयोषितामसमशोकमशोकलताकरोत् ॥
लघयति स्म न पत्यपराधजां न सहकारतरुस्तरुणीभृताम् ।
कुसुमितो न मितोऽलिभिरुन्मदैः स्मरसमाधिकरोऽधिकरोषताम् ॥ (१ धृतिम्.)