पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१९४

पुटमेतत् सुपुष्टितम्
( १९२ )
रघुवंशे

  ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरम् ।
  पतिषु निर्विविशुर्मधुमङ्गनाः स्मरसखं रसखण्डनवर्जितम् ॥३६॥

 ललितेति ॥ अङ्गना ललितविभ्रमबन्धविचक्षणं मधुरविलासघटनापटुतरम् । सुरभिणा मनोहरेण गन्धेन पराजितकेसरं निर्जितबकुलपुष्पम् ॥ "अथ केसरे। बकुलः" इत्यमरः ॥ स्मरस्य सखायं स्मरसखम् । स्मरोद्दीपकमित्यर्थः।मधुं मद्यम्॥ "अर्धर्चाः पुंसि च" इति पुंलिङ्गता ॥ उक्तं च-" मकरन्दस्य मद्यस्य माक्षिकस्यापि वाचकः । अर्धर्चादिगणे पाठात्पुंनपुंसकयोर्मधुः" इति ॥ पतिषु विषये रसखण्डनवर्जितमनुरागभङ्गरहितं यथा तथा निर्विविशुः । परस्परानुरागपूर्वकं पतिभिः सह पपुरित्यर्थः ॥

  शुशुभिरे स्मितचा[१]रुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः।
  विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः॥३७॥

 शुशुभिर इति ॥ विकचतामरसा विकसितकमलाः । मदेन कला अव्यक्तमधुरं ध्वनन्त उदकलोलविहंगमा जलप्रियपक्षिणो हंसादयो यासु ता मदकलोदकलोलविहंगमा गृहेषु दीर्घिका वाप्यः। स्मितेन चारुतराण्याननानि यासां ताः । श्लथाः शिञ्जिता मुखरा मेखला यासां ताः॥ शिञ्जितेति कर्तरि क्तः ॥ स्त्रिय इव । शुशुभिरे॥

  उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः ।
  सदृशमिष्टसमागमनिर्वृतिं वनितयानितया रजनीवधूः॥ ३८॥

 उपययाविति ॥ मधुना मधुसमयेन खण्डिता ह्रासं गमिता ॥ क्षीयन्ते खलूत्तरायणे रात्रयः खण्डिताख्या च नायिका ध्वन्यते ॥ हिमकरोदयेन चन्द्रोदयेन पाण्डुर्मुखस्य प्रदोषस्य वक्रस्य च छविर्यस्याः सा रजन्येव वधूः। इष्टसमागमनिर्वृतिं प्रियसंगमसुखमनितयाप्राप्तया ॥ " इण्गतौ" इति धातोः कर्तरि क्तः॥ वनितया सदृशं तुल्यं तनुतां न्यूनतां काश् र्यं चोपययौ ।

  अपतुषारतया विशदप्रभैः सुरतस[२]ङ्गपरिश्रमनोदिभिः ।
  कुसुमचापमतेजयदंशुभिर्हिमकरो मकरोर्जितकेतनम् ॥ ३९ ॥

 अपेति ॥ हिमकरश्चन्द्रः । अपतुषारतयापगतनीहारतया विशदप्रभैर्निर्मलकान्तिभिः सुरतसङ्गपरिश्रमनोदिभिः सुरतसङ्गखेदहारिभिरंशुभिः किरणैः । मकरोर्जितकेतनम् । मकरेणोर्जितं केतनं ध्वजो यस्य तम् । लब्धावकाशत्वादुच्छ्रितध्वजमित्यर्थः । कुसुमचापं काममतेजयदशातयत् ॥ "तिज निशाने" इति धातोर्ण्यन्ताल्लङ् ।। सहकारिलाभात्कामोऽपि तीक्ष्णोऽभूदित्यर्थः ॥


  1. चारुविलोचनाः.
  2. राग.