पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१९५

पुटमेतत् सुपुष्टितम्
( १९३ )
नवमः सर्गः ।

  हुतहुताशनदीप्ति वनश्रियः प्रतिनिधिः कनकाभरणस्य यत् ।
  युवतयः कुसुमं दधुराहितं तदलके दलकेसरपेशलम् ॥४० ॥

 हुतेति ॥ हुतहुताशनदीप्त्याज्यादिप्रज्वलिताग्निप्रभं यत्कुसुमम् । कर्णिकारमित्यर्थः । वनश्रिय उपवनलक्ष्म्याः कनकाभरणस्य प्रतिनिधिः। अभूदिति शेषः॥ दलेषु केसरेषु च पेशलम् । सुकुमारपत्रकिञ्जल्कमित्यर्थः ॥ आहितम् । प्रियैरिति शेषः ॥ तत्कुसुमं युवतयोऽलके कुन्तले दधुः ।।

  अलिभिरञ्जनबिन्दुमनोहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः ।
  न खलु शोभयति स्म वनस्थलीं न तिलकस्तिलकःप्रमदामिव ४१

 अलिभिरिति ॥ अञ्जनबिन्दुमनोहरैः कज्जलकणसुन्दरैः कुसुमपङ्क्तिषु निपतन्ति ये तैः। अलिभिरङ्कितश्चिह्नितस्तिलकः श्रीमान्नाम वृक्षः॥"तिलकः क्षुरकः श्रीमान्" इत्यमरः ॥ वनस्थलीम् । तिलको विशेषकः॥ "तमालपत्रतिलकचित्रकाणि विशेषकम् । द्वितीयं च तुरीयं च न स्त्रियाम्" इत्यमरः॥प्रमदामिव । न शोभयति स्मेति न खलु । अपि त्वशोभयदेवेत्यर्थः ॥"लट् स्मे" इति स्मशब्दयोगाद्भूतार्थे लट् ॥

  अमदयन्मधुगन्धसनाथया किसलयाधर[१]संगतया मनः।
  कुसुमसंभृतया नवमल्लिका स्मितरुचा तरुचारुविलासिनी॥४२

 अमदयदिति ॥ तरुचारुविलासिनी तरोः पुंसश्च चारुविलासिनी नवमल्लिका सप्तलाख्या लता ॥ "सप्तला नवमल्लिका" इत्यमरः ॥ मधुनो मकरन्दस्य मद्यस्य च गन्धेन सनाथया । गन्धप्रधानयेत्यर्थः । किसलयमेवाधरस्तत्र संगतया । प्रसृतरागयेत्यर्थः । कुसुमैः संभृतया संपादितया । कुसुमरूपयेत्यर्थः । स्मितरुचा हासकान्त्या मनः । पश्यतामिति शेषः । अमदयत् ॥

  अरुणरागनि[२]षेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः ।
  परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः॥४३॥

 अरुणेति ॥ विलासिनो विलसनशीलाः पुरुषाः ॥ “वौकषलस-" इत्यादिना घिनुण्प्रत्ययः ॥ अरुणस्यानूरो रागमारुण्यं निषेधन्ति तिरस्कुर्वन्तीत्यरुणरागनिषेधिनः । तैः । कुसुम्भादिरञ्जनात्तत्सदृशैरित्यर्थः ॥ “ तमन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति । तस्येवानुकरोतीति शब्दाः सादृश्यवाचकाः" इति दण्डी॥

अंशुकैरम्बरैः । श्रवणेषु कर्णेषु लब्धपदैः । निवेशितैरित्यर्थः । यवाङ्कुरैश्च । परभृ-


२५
 
  1. संततया मनः; संगतरागया.
  2. निषेविभिः