पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/१९७

पुटमेतत् सुपुष्टितम्
( १९५ )
नवमः सर्गः ।

गतमतीतं चतुरमुपभोगक्षमं वयो यौवनं पुनर्नैति नागच्छति । इत्येवंरूपे स्मरमते स्मराभिप्राये ॥ नपुंसके भावे क्तः॥ परभृताभिः कोकिलाभिर्निवेदिते सतीव वधूजनो रमते स्म रेमे ॥ कोकिलाकूजितोद्दीपितस्मरः स्त्रीजनः कामशासनभयादिवोच्छृङ्खलमखेलदित्यर्थः॥

  अथ यथासुखमार्तवमुत्सवं समनुभूय विलासवतीसखः ।
  नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः॥ ४८॥

 अथेति ॥ अथानन्तरम् । मधुं मथ्नातीति मधुमद्विष्णुः ॥ संपदादित्वात्क्विप् ॥ मधुर्वसन्तः। मथ्नातीति मथः ॥ पचाद्यच् ॥ मनसो मथो मन्मथः कामः । तेषां संनिभः सदृशो मधुमन्मधुमन्मथसंनिभः स नरपतिर्दशरथो विलासवतीसखः स्त्रीसहचरः सन् । ऋतुः प्राप्तोऽस्यार्तवः । तमुत्सवं वसन्तोत्सवं यथासुखं समनुभूय मृगयारतिं मृगयाविहारं चकम आचकाङ्क्ष।

 व्यसनासङ्गदोषं परिहरन्नाह-

  परिचयं चललक्ष्यनिपातने भयरुषोश्च तदिङ्गितबोधनम् ।
  श्रमजयात्प्रगुणां च करोत्यसौ[१] तनुमतोऽनुमतःसचिवैर्ययौ ॥ ४९ ॥

 परिचयमिति ॥ असौ मृगया। चललक्ष्याणि मृगगवयादीनि । तेषां निपातने परिचयमभ्यासं करोति । भयरुषोर्भयक्रोधयोस्तदिङ्गितबोधनं तेषां चललक्ष्याणामिङ्गितस्य चेष्टितस्य भयादिलिङ्गभूतस्य बोधनं ज्ञानं च करोति ॥ तनुं शरीरं श्रमस्य जयान्निरासात्प्रगुणां प्रकृष्टलाघवातिगुणवतीं च करोति ॥ अतो हेतोः सचिवैरनुमतोऽनुमोदितः सन्ययौ ॥ सर्वं चैतद्युद्धोपयोगीत्यतस्तदपेक्षया मृगयाप्रवृत्तिः। न तु व्यसनितयेति भावः ॥

  मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः।
  गगनमश्वखु[२]रोद्धतरेणुभिर्नृसविता स वितानमिवाकरोत् ॥५०॥

 मृगेति ॥ मृगाणां वनं तस्योपगमः प्राप्तिः। तस्य क्षममर्हं वेषं बिभर्तीति स

तथोक्तः। मृगयाविहारानुगुणवेषधारीत्यर्थः । विपुलकण्ठे निषक्तशरासनो लग्नधन्वा । ना सवितेव नृसविता पुरुषश्रेष्ठः ॥ उपमितसमासः ॥ स राजाश्वखुरोद्धतरेणुभिर्गगनं वितानं तुच्छमसदिवाकरोत् । गगनं नालक्ष्यतेत्यर्थः ॥ “वितानं तुच्छमन्दयोः" इति विश्वः ॥ अथवा सवितानमित्येकं पदम् । सवितानमुल्लोचसहितमिवाकरोत् ॥ “ अस्त्री वितानमुल्लोचः" इत्यमरः ॥


  1. सा.
  2. खुरोद्धुत.