पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२०

पुटमेतत् सुपुष्टितम्
( १८ )
रघुवंशे

 आतपात्ययेति ॥ आतपस्यात्ययेऽपगमे सति संक्षिप्ता राशीकृता नीवारास्तृणधान्यानि यासु तासु ॥ “नीवारास्तृणधान्यानि” इत्यमरः ॥ उटजानां पर्णशालानामङ्गनभूमिषु चत्वरभागेषु ।। “पर्णशालोटजोऽस्त्रियाम्” इति । “ अङ्गनं चत्वराजिरे” इति चामरः ॥ निषादिभिरुपविष्टैर्मृगैर्वर्तितो निष्पादितो रोमन्थश्चर्वितचर्वणं यस्मिन्नाश्रमे तम् ॥

  अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान् ।
  पुनानं पवनोध्दूतैर्धूमैराहुतिगन्धिभिः॥५३॥

 अभ्युत्थितेति ॥ अभ्युत्थिताः प्रज्वलिताः । होमयोग्या इत्यर्थः ॥ “समिद्धेऽग्नावाहुतीर्जुहोति” इति वचनात् ॥ तेषामग्रीनां पिशुनैः सूचकैः पवनोध्दूतैः । आहुतिगन्धो येषामस्तीत्याहुतिगन्धिनः । तैर्धूमैराश्रमोन्मुखानतिथीन्पुनानं पवित्रीकुर्वाणम् ॥ कुलकम् ॥

  अथ यन्तारमादिश्य धुर्यान्विश्रामयेति सः।
  ताम[]वारोहयत्पत्नीं रथाद[]वततार च ॥५४॥

 अथेति ॥ अथाश्रमप्राप्त्यनन्तरं स राजा यन्तारं सारथिम् । धुरं वहन्तीति धुर्या युग्याः ॥ “धुरो यड्ढकै” इति यत्प्रत्ययः ॥ “धूर्वहे धुर्यधौरेयधुरीणाः सधुरंधराः” इत्यमरः ।। धुर्यान्रथाश्वान्विश्रामय विनीतश्रमान्कुर्वित्यादिश्याज्ञाप्य तां पत्नीं रथादवारोहयदवतारितवान्स्वयं चावततार ॥ “विश्रमय” इति ह्रस्वपाठे “जनीजॄष्-” इति मित्वे “ मितां ह्रस्वः” इति ह्रस्वः। दीर्घपाठे “मितां ह्रस्वः” इति सूत्रे “वा चित्तविरागे" इत्यतो “वा” इत्यनुवर्त्य व्यवस्थितविभाषाश्रयणत्वाध्द्रस्वाभाव इति वृत्तिकारः ।।

  तस्मै सभ्याः सभार्याय गोप्त्ने गुप्ततमेन्द्रियाः।
  अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे ॥५५॥

 तस्मा इति ॥ सभायां साधवः सभ्याः ॥ “सभाया यः” इति यप्रत्ययः ॥ गुप्ततमेन्द्रिया अत्यन्तनियमितेन्द्रिया मुनयः सभार्याय गोप्त्ने रक्षकाय । नयः शास्त्रमेव चक्षुस्तत्त्वावेदकं प्रमाणं यस्य तस्मै नयचक्षुषे । अत एवार्हते प्रशस्ताय । पूज्यायेत्यर्थः ॥ “ अर्हः प्रशंसायाम्” इति शतृप्रत्ययः ॥ तस्मै राज्ञेऽर्हणां पूजां चक्रुः ॥ “ पूजा नमस्यापचितिः सपर्यार्चार्हणाः समाः” इत्यमरः ॥

  विधेः सायंतनस्यान्ते स ददर्श तपोनिधिम् ।
  []अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम् ।। ५६ ॥



  1. अवारोपयत्.
  2. अवरूरोह.
  3. अन्वासिनम्.