पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२०२

पुटमेतत् सुपुष्टितम्
( २०० )
रघुवंशे

  व्याघ्रानभीरभिमुखोत्पतितान्गुहाभ्यः
   फुलासनाग्रविटपानिव वायुरु[]ग्णान् ।
  शिक्षाविशेषलघुहस्ततया निमेषा-
   त्तूणीचकार शरपूरितवक्त्ररन्ध्रान् ।।६३॥

 व्याघ्रानिति ॥ अभीर्निर्भीकः स धन्वी गुहाभ्योऽभिमुखमुत्पतितान् । वायुना रुग्णान्भग्नान् । फुल्ला विकसिताः ॥ “अनुपसर्गात्फुल्लक्षीबकृशोल्लाघाः" इति निष्ठातकारस्य लत्वनिपातः॥ येऽसनस्य सर्जवृक्षस्य ॥ “सर्जकासनबन्धूकपुष्पप्रियकजीवकाः" इत्यमरः ॥ अग्रविटपास्तानिव स्थितान् । इषुधिभूतानित्यर्थः । व्याघ्राणां चित्ररूपत्वादुपमाने फुल्लविशेषणम् ॥ शरैः पूरितानि वक्ररन्ध्राणि येषां तान्व्याघ्रान् । शिक्षाविशेषेणाभ्यासातिशयेन लघुहस्ततया क्षिप्रहस्ततया निमेषात्तूणीचकार । तूर्णं शरैः पूरितवानित्यर्थः ॥

  निर्घातोग्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयामास सिंहान् ।
  नूनं तेषामभ्यसूयापरोऽभूद्वीर्योदग्रे राजशब्दे मृगेषु ।।६४॥

 निर्घातेति ॥ कुञ्जेषु लीनान् ॥ “निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे" इत्यमरः ॥ सिंहाञ्जिघांसुर्हन्तुमिच्छुः । निर्घातो व्योमोत्थित औत्पातिकः शब्दविशेषः । तद्वदुग्रै रौद्रैर्ज्यानिर्घोषैर्मौर्वीशब्दैः क्षोभयामास॥अत्रोत्पेक्षते तेषां सिंहानां संबन्धिनि वीर्येणोदग्र उन्नते मृगेषु विषये यो राजशब्दस्तस्मिन्नभ्यसूयापरोऽभून्नूनम् । अन्यथा कथमेतानन्विष्य हन्यादित्यर्थः ॥ “मृगाणाम्” इति पाठे समासे गुणभूतत्वाद्राजशब्देन संबन्धो दुर्घटः ॥ शालिनीवृत्तम् - "शालिन्युक्ता म्तौ तगौ गोऽब्धिलोकैः" इति लक्षणात् ॥

  तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान् ।
  आत्मानं रणकृतकर्मणां गजानामानृण्यं गतमिव मार्गणैरमंस्त॥६५॥

 तानिति ॥ काकुत्स्थो दशरथः । गजकुलेषु बद्धं तीव्रं वैरं यैस्तान् । कुटिलेषु नखाग्रेषु लग्ना मुक्ता गजकुम्भमौक्तिकानि येषां तान्सिंहान्हत्वा आत्मानं रणेषु कृतकर्मणां कृतोपकाराणां गजानामानृण्यमनृणत्वं मार्गणैः शरैः॥ “मार्गणो याचके शरे" इति विश्वः । गतं प्राप्तवन्तमिवामंस्त मेने ॥

  चमरान्परितः प्र[]वर्तिताश्वः क्वचिदाकर्णविकृ[]ष्टभल्लवर्षी ।
  नृ[]पतीनिव तान्वियोज्य सद्यः सितबालव्यजनैर्जगाम शान्तिम्॥६६॥


  1. भग्नान्.
  2. विवर्तिताश्वः.
  3. निकृष्ठभल्ल; निशक्तभल्ल.
  4. नृपतीनिव तान्निनाय शान्तिं
    सितबालव्यजनैर्वियोज्य सद्यः.