पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२०३

पुटमेतत् सुपुष्टितम्
( २०१ )
नवमः सर्गः ।

 चमरानिति॥क्वचिच्चमरान्परितः॥“अभितःपरितःसमया-" इत्यादिना द्वितीया ॥ प्रवर्तिताश्वः प्रधाविताश्वः। आकर्णविकृष्टभल्लानिषुविशेषान्वर्षतीति तथोक्तः स नृपः । नृपतीनिव । तांश्चमरान्सितबालव्यजनैः शुभ्रचामरैर्वियोज्य विरहय्य सद्यः शान्तिं जगाम ॥ शूराणां परकीयमैश्वर्यमेवासह्यम् । न तु जीवितमिति भावः ॥ औपच्छन्दसिकं वृत्तम् ॥

  अपि तुरगसमीपादुत्पतन्तं मयूरं
   न स रुचिरकलापं बाणलक्ष्यीचकार ।
  सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे
   रतिविगलितबन्धे केशपाशे प्रियायाः॥६७॥

 अपीति ॥ स नृपस्तुरगसमीपादुत्पतन्तमपि । सुप्रहारमपीत्यर्थः । रुचिरकलापं भासुरबर्हम् । मह्यामतिशयेन रौतीति मयूरो बर्ही ॥ पृषोदरादित्वात्साधुः॥ तं चित्रेण माल्येनानुकीर्णे रतौ विगलितबन्धे प्रियायाः केशपाशे सपदि गतमनस्कः प्रवृत्तचित्तः॥“उरःप्रभृतिभ्यः कप्" इति कप्प्रत्ययः॥ न बाणलक्ष्यीचकार । न प्रजहारेत्यर्थः॥

  तस्य कर्कशविहारसंभवं स्वेदमाननविलग्नजालकम् ।
  आचचाम स[१]तुषारशीकरो भिन्नपल्लवपुटो वनानिलः ॥ ६८॥

 तस्येति ॥ कर्कशविहारादतिव्यायामात्संभवो यस्य तम् । आनने विलग्नजालकं बद्धकदम्बकं तस्य नृपस्य स्वेदम् । सतुषारशीकरः शिशिराम्बुकणसहितः । भिन्नां निर्दलिताः पल्लवानां पुटाः कोशा येन सः । वनानिल आचचाम । जहारेत्यर्थः॥ रथोद्धतावृत्तमेतत् ॥

  इति विस्मृतान्यकरणीयमात्मनः स[२]चिवावलम्बितधुरं ध[३]राधिपम् ।
  परिवृद्धरागमनुबन्धसेवया मृगया जहार चतुरेव कामिनी ॥६९॥

 इतीति ॥ इति पूर्वोक्तप्रकारेणात्मनो विस्मृतमन्यत्करणीयं कार्यं येन तम् ।

विस्मृतात्मकार्यान्तरमित्यर्थः । सचिवैरवलम्बिता धृता धूर्यस्य तम् ॥ “ऋक्पूरब्धूह्पथामानक्षे” इति समासान्तोऽच्प्रत्ययः ॥ अनुबन्धसेवया संततसेवया परिवृद्धो रागो यस्य तं धराधिपम् । मृग्यन्ते यस्यां मृगा इति मृगया ॥ “परिचर्यापरिसर्यामृगयाटाट्यादीनामुपसंख्यानम्" इति शप्प्रत्ययान्तो निपातः ॥ चतुरा विदग्धा कामिनीव । जहाराचकर्ष । “न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते" इति भावः ॥


  1. सतुषारशीतलः, सुतुषारशीतलः.
  2. सचिवाविलम्बितधुरम.
  3. नराधिपम् .