पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२०४

पुटमेतत् सुपुष्टितम्
( २०२ )
रघुवंशे

  [१] ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथाम् ।
  नरपतिरतिवाहयांबभूव क्वचिदसमेतपरिच्छदस्त्रियामाम् ॥७०॥

 स इति ॥ स नरपतिः । ललितानि कुसुमानि प्रवालानि पल्लवानि शय्यायस्यां ताम् । ज्वलिताभिर्महौषधिभिरेव दीपिकाभिः सनाथाम् । तत्प्रधानामित्यर्थः॥ त्रियामां रात्रिं क्वचिदसमेतपरिच्छदः। परिहृतपरिजनः सन्नित्यर्थः ॥ अतिवाहयांबभूव गमयामास ॥ पुष्पिताग्रावृत्तम् ॥

  उषसि स गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः ।
  अरमत म[२]धुराणि तत्र शृण्वन्विहगविकूजितबन्दिमङ्गलानि ॥७१॥

 उषसीति ॥ उषसि प्रातः पटूनां पटहानामिव ध्वनिर्येषां तैर्गजयूथानां कर्णैरेव तालैर्वाद्यप्रभेदैर्विनीतनिद्रः स नृपस्तत्र वने मधुराणि विहगानां विहंगानां विकूजितान्येव बन्दिनां मङ्गलानि मङ्गलगीतानि शृण्वन्नरमत ॥

  अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः ।
  श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण ॥७२॥

 अथेति ॥ अथ जातु कदाचिद्रुरोर्मृगस्य गृहीतवर्त्मा स्वीकृतरुरुमार्गो विपिने वने पार्श्वचरैरलक्ष्यमाणः । तुरगवेगादित्यर्थः ॥ श्रमेण फेनमुचा । सफेनं स्विद्यतेत्यर्थः । तुरंगमेण तपस्विभिर्गाढामवगाढां सेवितां तमसां नाम नदीं सरितं प्राप ॥

  कुम्भपूरणभवः पटुरुच्चैरुच्चचार निनदोऽम्भसि तस्याः।
  तत्र स द्विरदबृंहितशङ्की शब्दपातिनमिषुं विससर्ज ॥ ७३ ॥

 कुम्भेति ॥ तस्यास्तमसाया अम्भसि कुम्भपूरणेन भव उत्पन्नः॥पचाद्यच् ॥ पटुर्मधुरः । उच्चैर्गम्भीरो निनदो ध्वनिरुच्चचारोदियाय ॥ तत्र निनदे स नृपः । द्विरदबृंहितं शङ्कत इति द्विरदबृंहितशङ्की सन् । शब्देन शब्दानुसारेण पततीति शब्दपातिनमिषुं विससर्ज ॥ स्वागतावृत्तम् ॥

  नृपतेः प्रतिषिद्धमेव त[३]त्कृतवान्पङ्तिरथो विलङ्घ्य य[४]त् ।
  अपथे पदमपर्यन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः ॥७४॥

 नृपतेरिति ॥ तत्कर्म नृपतेः क्षत्रियस्य प्रतिषिद्धमेव निषिद्धमेव यदेतत्कर्म गजवधरूपं पङ्तिरथो दशरथो विलङ्घ्य “लक्ष्मीकामो युद्धादन्यत्र करिवधं न कुर्यात्" इति शास्त्रमुल्लङ्घ्य कृतवान् ॥ ननु विदुषस्तस्य कथमीदृग्विचेष्टितमत आह-अपथ इति ॥ श्रुतवन्तोऽपि विद्वांसोऽपि रजोनिमीलिता रजोगुणावृताः स

१ २ ३ ४


  1. सुललित.
  2. मधुरस्वराणि.
  3. यत्.
  4. तत्.