पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२०६

पुटमेतत् सुपुष्टितम्
( २०४ )
रघुवंशे

  ताभ्यां तथागतमुपेत्य तमेकपुत्र-
   मज्ञानतः स्वरचितं नृपतिः शशंस ।। ७७॥

 तदिति ॥ तच्चोदितस्तेन पुत्रेण चोदितः पितृसमीपं प्रापयेत्युक्तः स नृपतिरनुद्धृतशल्यमनुत्पाटितशरमेव तं मुनिपुत्रम् । अवसन्नदृशोर्नष्टचक्षुषोः । अन्धयोरित्यर्थः । पित्रोर्मातापित्रोः ॥ " पिता मात्रा" इत्येकशेषः ॥ सकाशं समीपं निनाय ॥ इदं च रामायणविरुद्धम् । तत्र-“अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ । अस्पर्शयमहं पुत्रं तं मुनि सह भार्यया" इति नदीतीर एव मृतं पुत्रं प्रति पित्रोरानयनाभिधानात् ॥ तथागतं वेतसगूढम् । एकश्चासौ पुत्रश्चैकपुत्रस्तम् ।। एकग्रहणं पित्रोरनन्यगतिकत्वसूचनार्थम् ॥ तं मुनिपुत्रमुपेत्य संनिकृष्टं गत्वाज्ञानतः करिभ्रान्त्या स्वचरितं स्वकृतं ताभ्यां मातापितृभ्याम् ॥ क्रियाग्रहणाच्चतुर्थी ॥ शशंस कथितवान् ॥

  तौ दंपती बहु विलप्य शिशोः प्रहार्त्रा
   शल्यं निखातमुदहारयतामुरस्तः।
  सोऽभूत्परासुरथ भूमिपति शशाप
   हस्तार्पितैर्नयनवारिभिरेव वृद्धः॥ ७८॥

 ताविति ॥ तौ जाया च पतिश्च दंपती ॥ राजदन्तादिषु जायाशब्दस्य दम्भावो जम्भावश्च विकल्पेन निपातितः॥ “दंपती जंपती जायापती भार्यापती च तौ" इसमरः॥ बहु विलप्य भूरि परिदेव्य ॥ “विलापः परिदेवनम्" इत्यमरः॥ शिशोरुरस्तो वक्षसः ॥ “पञ्चम्यास्तसिल्" ॥ निखातं शल्यं शरं प्रहर्त्रा राज्ञोदहारयतामुद्धारयामासतुः ॥ स शिशुः परामर्गतमाणोऽभूत् ॥ अथ वृद्धो हस्तार्पितैर्नयनवारिभिरेव शापदानस्य जलपूर्वकत्वात्तैरेव भूमिपतिं शशाप ॥

  दि[१]ष्टान्तमाप्स्यति भवानपि पुत्रशोका-
   [२]न्त्ये व्यस्यहमिवेति तमुक्तवन्तम् ।
  आक्रान्तपूर्वमिव मुक्तविषं भुजंगं
   प्रोवाच कोसलपतिः प्र[३]थमापराद्धः॥ ७९ ॥

 दिष्टेति ॥ हे राजन्, भवानप्यन्त्ये वयस्यहमिव पुत्रशोकाद्दिष्टान्तं कालावसानम् । मरणमित्यर्थः ॥ “दिष्टः काले च दैवे स्याद्दिष्टम्" इति विश्वः ॥ आप्स्यति प्राप्स्यति । इत्युक्तवन्तम् । आक्रान्तः पादाहतः पूर्वमाक्रान्तपूर्वः ॥ सुप्सुपेति समासः ॥

तम् । प्रथममपकृतमित्यर्थः । मुक्तविषमपकारात्पश्चादुत्सृष्टविषं


  1. दिष्टया.
  2. अन्ते.
  3. मथमापराध:.