पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२०७

पुटमेतत् सुपुष्टितम्
( २०५ )
नवमः सर्गः ।

भुजंगमिव स्थितं तं वृद्धं प्रति मथमापराद्धः प्रथमापराधी ॥ कर्तरि क्तः ॥ इदं च सहने कारणमुक्तम् ॥ कोसलपतिर्दशरथः शापदानात्पश्चादप्येनं मुनिं प्रोवाच ॥

  शापोऽप्य[१]दृष्टतनयाननपद्मशोभे
   सानुग्रहो भ[२]गवता मयि पातितोऽयम् ।
  कृ[३]ष्यां दहन्नपि खलु क्षितिमिन्धनेद्धो
   बीजप्ररोहजननीं ज्व[४]लनः करोति ॥ ८०॥

 शाप इति ॥ अदृष्टा तनयाननपद्मशोभा येन तस्मिन्नपुत्रके मयि भगवता पातितः ॥ वज्रप्रायत्वात्पातित इत्युक्तम् ॥ अय पुत्रशोकान्म्रियस्वेत्येवंरूपः शापोऽपि सानुग्रहः । वृद्धकुमारीवरन्यायेनेष्टावाप्तेरन्तरीयकत्वात्सोपकार एव ॥ निग्राहकस्याप्यनुग्राहकत्वमर्थान्तरन्यासेनाह--कृष्यामिति ॥ इन्धनैः काष्ठैरिद्धः प्रज्वलितो ज्वलनोऽग्निः कृष्यां कर्षणार्हाम् ॥ “ऋदुपधाच्चाक्लृपिचृतेः" इति क्यप् ॥ क्षितिं दहन्नपि बीजमरोहाणां बीजाङ्कराणां जननीमुत्पादनक्षमां करोति ॥

  इत्थंगते गतघृणः किमयं विधत्तां
   वध्यस्तवेत्य[५]भिहितो वसुधाधिपेन ।
  एधान्हुताशनवतः स मुनिर्ययाचे
   पुत्रं परासुमनुगन्तुमनाः सदारः॥८१॥

 इत्थमिति ॥ इत्थंगते प्रवृत्ते सति । वसुधाधिपेन राज्ञा । गतघृणो निष्करुणः । हन्तृत्वानिष्कृप इत्यर्थः । अतएव तव वध्यो वधार्होऽयं जनः ॥ अयमिति राज्ञो निर्वेदादनादरेण स्वात्मनिर्देशः ॥ किं विधत्तामित्यभिहित उक्तः । मया किं विधेयमिति विज्ञापित इत्यर्थः । स मुनिः सदारः सभार्यः परासुं गतासुं पुत्रमनुगन्तुं मनो यस्य सोऽनुगन्तुमनाः सन् ॥ “तुं काममनसोरपि" इति मकारलोपः ॥ हुताशनवतः साग्नीनेधान्काष्ठानि ययाचे ॥ न चात्रात्मघातदोषः - "अनुष्ठानासमर्थस्य वानप्रस्थस्य जीर्यतः । भृग्वग्निजलसंपातैर्मरणं प्रविधीयते" इत्युक्तेः॥

  प्रासानुगः सपदि शासनमस्य राजा
   संपाद्य पातकविलुप्तधृतिर्निवृत्तः।
  अन्तर्निविष्टपदमात्मविनाशहेतुं
   शापं दधज्ज्वलनमौर्वमिवाम्बुराशिः॥८२॥

 प्राप्तेति ॥ प्राप्तानुगःप्राप्तानुचरो राजा सपद्यस्य मुनेः शासनं काष्ठसंभारण-


  1. अथ.
  2. हि भवता.
  3. कक्षाम्.
  4. दहन:
  5. अभिहिते.