रूपं प्रागेकोऽपि संप्रति प्राप्तानुचरत्वात्संपाद्य पातकेन मुनिवधरूपेण विलसतिर्नष्टोत्साहः सन् । अन्तर्निविष्टपदमन्तर्लब्धस्थानमात्मविनाशहेतुं शापम् । अम्बुराशिरौर्वं ज्वलनं वडवानलमिव ॥ "और्वस्तु वाडवो वडवानल:" इत्यमरः॥ दधद्धृतवान्सन् । निवृत्तः । वनादिति शेषः॥
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये
मृगयावर्णनो नाम नवमः सर्गः ।
दशमः सर्गः।
आशंसे नित्यमानन्दं रामनामकथामृतम् ।
सद्भिः स्वश्रवणैर्नित्यं पेयं पापं प्रणोदितुम् ॥
पृथिवीं शासतस्तस्य पाकशासनतेजसः।
किंचिदूनमनूनर्द्धेः शरदामयुतं ययौ ॥१॥
पृथिवीमिति ॥ पृथिवीं शासतः पालयतः पाकशासनतेजस इन्द्रवर्चसः । अनूनर्द्धेर्महासमृद्धेस्तस्य दशरथस्य किंचिदूनमीषत्र्यूनं शरदां वत्सराणाम् ॥ "स्यादृतौ वत्सरे शरत्" इत्यमरः ॥ अयुतं दशसहस्रं ययौ । “एकदशशतसहस्राण्ययुतं लक्षं तथा प्रयुतम् । कोटयर्बुदं च पद्म स्थानात्स्थानं दशगुणं स्यात्" इत्यार्यभट्टः ॥ इदं च मुनिशापात्परं वेदितव्यं न तु जननात् ॥ "षष्टिवर्षसहस्राणि जातस्य मम कौशिक । दुःखेनोत्पादितश्चायं न रामं नेतुमर्हसि" इति रामायणविरोधात् । नाप्यभिषेकात्परं तस्यापि “सम्यग्विनीतमथ वर्महरं कुमारमादिश्य रक्षणविधौ विधिवत्मजानाम्" (८ । ९४) इति कौमारानुष्ठितत्वाभिधानात्स एव विरोध इति ॥
न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् ।
सुताभिधानं स[१] ज्योतिः सद्यः शोकतमोपहम् ॥२॥
न चेति ॥ स दशरथः पूर्वेषां पितॄणामृणनिर्मोक्षसाधनम् ॥"एष वा अनृणो यः पुत्री" इति श्रुतेः ॥ पितॄणामृणविमुक्तिकारणम् । सद्यः शोक एव तमस्तदपहन्तीति शोकतमोपहम् ॥ अत्राभयङ्कर इतिवदुपपदेऽपि तदन्तविधिमाश्रित्य "अपे केशतमसोः" इति डप्रत्ययः॥ सुताभिधानं सुताख्यं ज्योतिर्नोपलेभे न पाप च॥
अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः ।
प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः॥३॥
- ↑ सञ्ज्योति: