पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२०९

पुटमेतत् सुपुष्टितम्
( २०७ )
दशमः सर्गः ।

 अतिष्ठदिति ॥प्रत्ययं हेतुमपेक्षत इति प्रत्ययापेक्षा संततिर्यस्य स तयोक्तः॥ "प्रत्ययोऽधीनशपथज्ञान विश्वासहेतुषु" इत्यमरः। स नृपः । मन्थात्प्राङ्मन्थनात्पूर्वमनभिव्यक्तादृष्टा रत्नोत्पत्तिर्यस्य सोऽर्णव इव । चिरमतिष्ठत् ॥ साम्रग्यभावाद्विलम्बो न तु वन्ध्यत्वादिति भावः ॥

  ऋष्यशृङ्गादयस्तस्य सन्तः संतानकाङ्क्षिणः ।
  आरेभिरे जितात्मानः पुत्रीयामिष्टिमृत्विजः ।। ४॥

 ऋष्यशृङ्गेति ॥ ऋष्यशृङ्गादयः । ऋष्यशृङ्गो नाम कश्चिदृषिः । तदादयः। ऋतुमृतौ वा यजन्तीत्यृत्विजो याज्ञिकाः ॥"ऋत्विग्दधृक्-" इत्यादिना किवन्तो निपातः॥ जितात्मानो जितान्तःकरणाः सन्तः संतानकाङ्क्षिणः पुत्रार्थिनस्तस्य दशरथस्य पुत्रीयां पुत्रनिमित्ताम् ॥ "पुत्राच्छ च" इति छप्रत्ययः ॥ इष्टिं यागमारेभिरे प्रचक्रमिरे ॥

  तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिम् ।
  अभिजग्मुर्निदाघार्ताश्छायावृक्षमिवाध्वगाः ॥५॥

 तस्मिन्निति ॥ तस्मिन्नवसरे पुत्रकामेष्टिमवृत्तिसमये देवाः । पुलस्त्यस्य गोत्रापत्यं पुमान्पौलस्त्यो रावणः । तेनोपप्लुताः पीडिताः सन्तः । निदाघार्ता घर्मातुराः। अध्वानं गच्छन्तीत्यध्वगाः पान्थाः॥ “अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः" इति डप्रत्ययः ॥ छायाप्रधानं वृक्षं छायावृक्षमिव ॥ शाकपार्थिवादित्वात्समासः॥ हरिं विष्णुमभिजग्मुः॥

  ते च प्रापुरुदन्वन्तं बुबुधे चादिपुरुषः।
  अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणम् ॥६॥

 त इति ॥ते, देवाश्चोदन्वन्तं समुद्रम् ॥ “उदन्वानुदधौ च" इति निपातः।। प्रापुः । आदिपूरुषो विष्णुश्च बुबुधे । योगनिद्रां जहावित्यर्थः ॥ गमनप्रतिवोधयोरविलम्बार्थौ चकारौ । तथाहि । अव्याक्षेपो गम्यस्याव्यासङ्गः। अविलम्ब इति यावत् । भविष्यन्त्याः कार्यसिद्धेर्लक्षणं लिङ्ग हि ॥ उक्तं च-"अनन्यपरता चास्य कार्यसिद्धेस्तु लक्षणम्" इति ॥

  भोगिभोगासनासीनं ददृशु[१]स्तं दिवौकसः।
  तत्फणामण्डलोदचिर्मणिद्योतितविग्रहम् ॥ ७॥

 भोगीति॥द्यौरोको येषां ते दिवौकसो देवाः ॥ पृषोदरादित्वात्साधुः॥ यद्वा दिवशब्दोऽदन्तोऽप्यस्ति । तथा च बुद्धचरिते-"न शोभते तेन हि नो विना पुरं मरुत्वता वृत्रवधे यया दिवम्” इति ॥ तत्र “दिवु क्रीडादौ" इति


  1. ते.