पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२१०

पुटमेतत् सुपुष्टितम्
( २०८ )
रघुवंशे

धातोः “इगुपध-" इति कः ॥ दिवमोक एषामिति विग्रहः ॥ भोगिनः शेषस्य भोगः शरीरम् । “भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः" इत्यमरः॥ स एवासनं सिंहासनम् । तत्रासीनमुपविष्टम् ।। आसेः शानच् ॥ "ईदासः" इतीकारादेशः ॥ तस्य भोगिनः फणामण्डले य उदर्चिष उद्रश्मयो मणयस्स्तैर्द्योतितविग्रहं तं विष्णुं ददृशुः॥

  श्रियः पद्मनिषण्णायाः क्षौमान्तरितमेखले ।
  अङ्के निक्षिप्तचरणमास्तीर्णकरपल्लवे ॥८॥

 श्रिय इति ॥ कीदृशं विष्णुम् । पद्मे निषण्णाया उपविष्टायाः श्रियः क्षौमान्तरिता दुकूलव्यवहिता मेखला यस्य तस्मिन् । आस्तीर्णौ करपल्लवौ पाणिपल्लवौ यस्मिन् । विशेषणद्वयेनापि चरणयोः सौकुमार्यात्कटिमेखलास्पर्शासहत्वं सूच्यते ॥ तस्मिन्नङ्गे निक्षिप्तौ चरणौ येन तम् ।।

  प्र[१]बुद्धपुण्डरीकाक्षं बालातपनिभांशुकम् ।
  दिवसं शारदमिव प्रारम्भसुखदर्शनम् ॥ ९॥

 प्रबुद्धेति ॥ पुनः कीदृशम् । प्रबुद्धे विकसिते पुण्डरीके इवाक्षिणी यस्य तम् । दिवसे तु पुण्डरीकमेवाक्षि यस्येति विग्रहः । बालातपनिभमंशुकं यस्य तम् । पीताम्बरधरमित्यर्थः । अन्यत्र बालातपव्याजांशुकमित्यर्थः ॥ “निभो व्याजसदृक्षयोः" इति विश्वः ॥ प्रकृष्ट आरम्भो योगो येषां ते प्रारम्भा योगिनः । तेषां सुखदर्शनम् । अन्यत्र प्रारम्भ आदौ सुखदर्शनं शारदं शरत्संबन्धिनं दिवसमिव स्थितम् ॥

  प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणम् ।
  कौस्तुभाख्यमपां सारं बि[२]भ्राणं बृहतोरसा ॥ १०॥

 प्रभेति ॥ पुनः किंविधम् । प्रभयानुलिप्तमनुरञ्जितं श्रीवत्स नाम लाञ्छनं येन तम् । लक्ष्म्या विभ्रमदर्पणं कौस्तुभ इत्याख्या यस्य तम् । अपां समुद्राणां सारं स्थिरांशम् । अम्मयमणिमित्यर्थः । बृहतोरसा विभ्राणम् ॥ बाहुभिर्विटपाकारैर्दिव्याभरणभूषितैः । आविर्भूतमपां मध्ये पारिजातमिवापरम् ॥ १५॥  बाहुभिरिति ॥ विटपाकारैः शाखाकारैर्दिव्याभरणभूपितैर्बाहुभिरुपलक्षितम् । अत एवापां सैन्धवानां मध्य आविर्भूतम[३]परं द्वितीयं पारिजातमिव स्थितम् ।।

  दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः ।
  हेतिभिश्चेतनावद्भिरुदीरितजयस्वनम् ॥ १५॥


  1. प्रफुल्ल.
  2. बिभ्रस्तम् ; बिभ्रतम्.
  3. अपां मध्यात्; पयोमध्यात्.