पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२११

पुटमेतत् सुपुष्टितम्
( २०९ )
दशमः सर्गः ।

 दैत्यति ॥ दैत्यस्त्रीगण्डलेखानामसुराङ्गनागण्डस्थलीनां यो मदरागस्तं विलुम्पन्ति हरन्तीति मदरागविलोपिनः । तैश्चेतनावद्भिः सजीवैर्हेतिभिः सुदर्शनादिभिः शस्त्रैः ॥ "रवेरर्चिश्च शस्त्रं च वह्निज्वाला च हेतयः" इत्यमरः ॥ उदीरितजयस्वनम् । जयशब्दमुद्धोषयन्तीभिर्मूर्तिमतीभिरस्त्रदेवताभिरुपास्यमानमियर्थः ।

  मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा।
  उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ॥ १३॥

 मुक्तेति ॥ मुक्तो भगवत्संनिधानात्त्यक्तः शेषेणाहीश्वरेण सह विरोधः सहजमपि वैरं येन तेन । कुलिशव्रणा अमृताहरणकाल इन्द्रयुद्धे ये वज्रमहारास्त एव लक्ष्माणि यस्य स तेन । प्रबद्धोऽञ्जलिर्येन तेन प्राञ्जलिना । प्रबद्धाञ्जलिनेत्यर्थः । विनीतेनानुद्धतेन गरुत्मतोपस्थितमुपासितम् ॥ पुरा किल मालिपार्थितेन भगवता तद्दुहितुर्गुणकेश्याः पत्युः कस्यचित्सर्पस्य गरुडादभयदाने कृते खविपक्षरक्षणक्षुभितं पक्षिराजं त्वद्वोढाहं त्वत्तो बलाढ्य इति गर्वितं स्ववामतर्जनीभारेणैव भङ्क्त्वा भगवान्विनिनायेति महाभारतीयां कथां सूचयति विनीतेनेत्यनेन ।।

  योगनिद्रान्तविशदैः पावनैरवलोकनैः।
  भृग्वादीननुगृह्णन्तं सौखशायनिकानुषीन् ॥१४॥

 योगेति ॥ योगो मनसो विपयान्तरव्यात्तिः । तद्रूपा या निद्रा तस्या अन्तेऽवसाने विशदैः प्रसन्नैः पावनैः शोधनेरवलोकनैः । सुखशयनं पृच्छन्तीति सौखशायनिकास्तान् ॥ “पृच्छन्तौ सुस्नातादिभ्यः" इत्युपसंख्यानाट्वक्प्रत्ययः॥ भृग्वादीनृपीननुगृह्णन्तम् ॥

  प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् ।
  अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम् ।। १५॥

 प्रणिपत्येति ॥ अथ दर्शनानन्तरं सुराः सुरद्विपामसुराणां शमयित्रे विनाशकाय तस्मै विष्णवे प्रणिपत्य स्तुत्यं स्तोत्रार्हम् ॥ “एतिस्तुशा स्स्दृव्जुट्षःटजुषः क्यप्" इति क्यपत्ययः ॥ वाक्च मनश्च वाङ्मनसे ॥ "अचतुर-" इत्यच्प्रत्ययान्तो निपातः॥ तयोर्गोचरो विषयो न भवतीत्यवाङ्मनसगोचरः। तमेनं विष्णुं तुष्टुवुरस्तुवन् ।

  नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते ।
  अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने ॥ १६ ॥

 नम इति ॥ पूर्वमादौ विश्वसृजे विश्वस्रष्ट्रे तदनु सर्गानन्तरं विश्व विभ्रते पुष्णते । अथ विश्वस्य संहर्त्रे । एवं त्रेधा सृष्टिस्थितिसंहारकर्तृत्वेन स्थित आत्मा स्वरूपं यस्य तस्मै ब्रह्मविष्णुहरात्मने तुभ्यं नमः॥ २७