पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२१२

पुटमेतत् सुपुष्टितम्
( २१० )
रघुवंशे

 ननु कूटस्थस्य कथं त्रैरूप्यमियाशङ्कयौपाधिकमित्याह-

  रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते ।
  देशे देशे गुणेष्वेवमवस्थास्त्वमविक्रियः॥ १७॥

 रसान्तराणीति॥ एकरसं मधुरैकरसं दिवि भवं दिव्यं पयो वर्षोदकं देशे देश ऊषरादिदेशेऽन्यान्रसान्रसान्तराणि लवणादीनि यथाश्नुते प्राप्नोति । एवमविक्रियो निर्विकारः। एकरूप इत्यर्थः । त्वं गुणेषु सत्वादिष्ववस्थाः स्रष्टत्वादिरूपा अश्नुषे॥

  अमेयो मितलोकस्त्वमनर्थी प्रार्थनावहः ।
  अजितो जिष्णुरत्यन्तमव्यक्तो व्यक्तकारणम् ॥ १८॥

 अमेय इति ॥ हे देव, त्वममेयो लोकैरियत्तया न परिच्छेद्यः । मितलोकः परिच्छिन्नलोकः । अनर्थी निःस्पृहः । आवहतीत्यावहः ॥ पचाद्यच् ॥ प्रार्थनानामावहः कामदः । अजितोऽन्यैर्न जितः । जिष्णुर्जयशीलः । अत्यन्तमव्यक्तोऽतिसूक्ष्मरूपः । व्यक्तस्य स्थूलरूपस्य कारणम् ॥

  हृदयस्थमनासन्नमकामं त्वां तपस्विनम् ।
  दयालुम[१]नघस्पृष्टं पुराणमजरं विदुः ॥ १९ ॥

 हृदयेति ॥ हे देव, त्वां हृदयस्थं सर्वान्तर्यामितया नित्यसंनिहितं तथाप्यनासन्नमगम्यरूपत्वाद्विपकृष्टं च विदुः । संनिकृष्टस्यापि विपकृष्टत्वमिति विरोधः । तथाकामम् । न कामोऽभिलापोऽस्य तं परिपूर्णत्वानिःस्पृहत्वाच्च निष्कामम् । तथापि तपस्विनं प्रशस्ततपोयुक्तं विदुः । यो निष्कामः स कथं तपः कुरुत इति विरोधः। परिहारस्तु ऋषिरूपेण दुस्तरं तपस्तप्यते । दयालुं परदुःखपहरणपरं तथाप्यनघस्पृष्टं नित्यानन्दस्वरूपत्वाददुःखिनं विदुः ॥ “ अघं दुरितदुःखयोः" इति विश्वः । दयालुरदुःखी चेति विरोधः ॥ “ईर्ष्यी घृणी त्वसंतुष्टः क्रोधनो नित्यशङ्कितः । परभाग्योपजीवी च षडेते नित्यदुःखिताः” इति महाभारते ॥ पुराणमनादिमजरं निर्विकारत्वादक्षरं विदुः । चिरंतनं न जीर्यत इति विरोधालंकारः। उक्तं च-" आभासत्वे विरोधस्य विरोधालंकृतिर्मता" इति ॥ विरोधेन चालौकिकमहिमत्वं व्यज्यते ॥

  सर्वज्ञस्त्वमविज्ञातः सर्वयोनिस्त्वमात्मभूः ।
  सर्वप्रभुरनीशस्त्वमेकस्त्वं सर्वरूपभाक् ॥ २०॥


१८-१९ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते-

एक: कारणतस्तां तामवस्थां प्रतिपद्यसे ।
नानात्वं रागसंयोगात्स्फटिकस्येव ते स्मृतम् ।।

  1. अदयास्पृष्टम्.