सर्वज्ञ इति ॥ त्वं सर्वं जानातीति सर्वज्ञः ॥ “इगुपध-” इति कप्रत्ययः ॥ अविज्ञातः । न केनापि विज्ञात इत्यर्थः । त्वं सर्वस्य योनिः कारणम् । त्वमात्मन एव भवतीत्यात्मभूः ॥ न ते किंचित्कारणमस्तीत्यर्थः ॥ त्वं सर्वस्य प्रभुः । त्वमनीशः । त्वमेकः सर्वरूपभाक् । त्वमेक एव सर्वात्मना वर्तस इत्यर्थः ॥
सप्तसामोपगीतं त्वां सप्तार्णवजलेशयम् ।
सप्तार्चिर्मुखमाचख्युः सप्तलोकैकसंश्रयम् ॥ २१ ॥
सप्तेति ॥ हे वेद, त्वां सप्तभिः सामभी रथंतरादिभिरुपगीतम् ॥ “तद्धितार्थ-” इत्युत्तरपदसमासः ॥ सप्तानामर्णवानां जलं सप्तार्णवजलम् ॥ पूर्ववत्समासः ॥ तत्र शेते यः स सप्तार्णवजलेशयः । तम् ॥ “शयवासवासिष्वकालात्” इत्यलुक् । सप्तार्चिर्मुखं यस्य तम् ॥ “अग्निमुखा वै देवाः” इति श्रुतेः ॥ सप्तानां लोकानां भूर्भुवःस्वरादीनामेकसंश्रयम् । एवंभूतमाचख्युः ॥
चतुरिति ॥ चतुर्णां धर्मार्थकाममोक्षाणां वर्गश्चतुर्वर्गः ॥ “त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः” इत्यमरः ॥ तत्फलकं यज्ज्ञानम् । चत्वारि युगानि कृतत्रेतादीनि यासु ताश्चतुर्युगाः कालावस्थाः कालपरिमाणम् । चत्वारो वर्णाः प्रकृता उच्यन्ते यस्मिन्निति चतुर्वर्णमयः । चातुर्वर्ण्यप्रचुर इत्यर्थः ॥ तत्प्रकृतवचने मयट् ॥ “तद्धितार्थ-” इत्यादिना तद्धितार्थे विषये तत्पुरुषः ॥ स लोकः । इत्येवंरूपं सर्वं चतुर्मुखाच्चतुर्मुखरूपिणस्त्वत्तः । जातमिति शेषः । “इदं सर्वमसृजत यदिदं किंचित्” इति श्रुतेः ॥
अभ्यासनिगृहीतेन मनसा हृदयाश्रयम् ।
ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये ॥ २३ ॥
अभ्यासेति ॥ अभ्यासेन निगृहीतं विषयान्तरेभ्यो निवर्तितम् । तेन मनसा योगिनो हृदयाश्रयं हृत्पद्मस्थं ज्योतिर्मयं त्वां विमुक्तये मोक्षार्थं विचिन्वन्त्यन्विष्यन्ति । ध्यायन्तीत्यर्थः ॥
अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः ।
स्वपतो जागरूकस्य या[३]थार्थ्यं वेद कस्तव ॥ २४ ॥
अजस्येति ॥ न जायत इत्यजः ॥ “अन्येष्वपि दृश्यते” इति डप्रत्ययः ॥ तस्याजस्य जन्मशून्यस्यापि जन्म गृह्णतः । मत्स्यादिरूपेण जायमानस्य । निरीहस्य