पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२१५

पुटमेतत् सुपुष्टितम्
( २१३ )
दशमः सर्गः ।

  केवलं स्मरणेनैव[१] पुनासि पुरुषं य[२]तः ।
  अनेन वृत्तयः शेषा निवेदितफलास्त्वयि ॥ २९॥

 केवलमिति ॥ स्मरणेन केवलं कृत्स्नम् ॥ “केवलः कृत्स्न एकश्च” इति शाश्वतः ॥ पुरुषं स्मर्तारं जनं पुनासि । यतः। यदित्यर्थः । अनेन स्मृतिकार्येणैव त्वयि त्वद्विषये याः शेषा अवशिष्टा वृत्तयो दर्शनस्पर्शनादयो व्यापारास्ता निवेदितफला विज्ञापितकार्याः ॥ तव स्मरणस्यैवैतत्फलम् । दर्शनादीनां तु कियदिति नावधारयाम इति भावः ॥

  उदधेरिव र[३]त्नानि तेजांसीव विवस्वतः ।
  स्तुतिभ्यो व्यतिरिच्यन्ते दू[४]राणि चरितानि ते ॥ ३० ॥

 उदधेरिति ॥ उदधे रत्नानीव । विवस्वतस्तेजांसीव । दूराण्यवाङ्मनसगोचराणि ते चरितानि स्तुतिभ्यो व्यतिरिच्यन्ते ॥ निःशेषं स्तोतुं न शक्यन्त इत्यर्थः ॥

  अनवाप्तमवाप्तव्यं न ते किंचन विद्यते ।
  लोकानुग्रह एवैको हेतुस्ते जन्मकर्मणोः ॥ ३१ ॥

 अनवाप्तमिति ॥ अनवाप्तमप्राप्तम् । अवाप्तव्यं प्राप्तव्यं ते तव किंचन किंचिदपि न विद्यते । नित्यपरिपूर्णत्वादिति भावः ॥ तर्हि किंनिबन्धने जन्मकर्मणी ॥ तत्राह-लोकेति ॥ एको लोकानुग्रह एव ते तव जन्मकर्मणोर्हेतुः ॥ परमकारुणिकस्य ते परार्थैव प्रवृत्तिः । न स्वार्थेत्यर्थः ॥

  महिमानं यदुत्कीर्त्य तव संह्रियते वचः ।
  श्रमेण तदशक्त्या वा न गुणानामियत्तया ॥ ३२ ॥

 महिमानमिति ॥ तव महिमानमुत्कीर्त्य वचः संह्रियत इति यत् । तद्वचःसंहरणं श्रमेण वाग्व्यापारश्रान्त्या । अशक्त्या कार्त्स्न्येन वक्तुमशक्यत्वाद्वा । गुणानामियत्तयैतावन्मात्रतया न । तेषामानन्त्यादिति भावः ॥

  इति प्रसादयामासुस्ते सुरास्तमधोक्षजम् ।
  भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः ॥ ३३ ॥

 इतीति ॥ इति ते सुरास्तमधोभूतमक्षजमिन्द्रियजं ज्ञानं यस्मिंस्तमधोक्षजम् । विष्णुं प्रसादयामासुः प्रसन्नं चक्रुः । हि यस्मात्परमेष्ठिनः सर्वोत्तमस्य तस्य देवस्य सा देवैः कृता भूतार्थव्याहृतिर्भूतस्य सत्यस्यार्थस्य व्याहृतिरुक्तिः ॥ “युक्ते क्ष्मादावृते भूतम्” इत्यमरः ॥ न स्तुतिर्न प्रशंसामात्रम् ॥ महान्तो हि यथाकथंचिन्न सुलभा इति भावः ॥ परमे स्थाने तिष्ठतीति परमेष्ठी । “परमे कित्” इत्युणादिसू-


  1. अपि.
  2. यदा.
  3. तोयानि.
  4. दूरेण; रूपेण.