पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२१९

पुटमेतत् सुपुष्टितम्
( २१७ )
दशमः सर्गः ।

 मोक्ष्यध्व इति ॥ हे देवाः, यूयं शापेन नलकूबरशापेन यन्त्रिताः प्रतिबद्धाः पौलस्त्यस्य रावणस्य बलात्कारेण ये कचग्रहाः केशाकर्षास्तैरदूषिताननुपहतान्स्वर्गबन्दीनां हृतस्वर्गाङ्गनानां वेणीबन्धान्मोक्ष्यध्वे ॥ पुरा किल नलकूबरेणात्मानमभिसरन्त्या रम्भाया बलात्कारेण संभोगात्क्रुद्धेन दुरात्मा रावणः शप्तः । स्त्रीणां बलाद्ग्रहणे मूर्धा ते शतधा भविष्यतीति भारतीया कथानुसंधेया ॥

  रावणावग्रहक्लान्तमिति वागमृतेन सः ।
  [१]भिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे ॥ ४८ ॥

 रावणेति ॥ स कृष्णो विष्णुः स एव मेघो नीलमेघश्च ॥ विश्रवसोऽपत्यं पुमानिति विग्रहे रावणः । विश्रवःशब्दाच्छिवादित्वादणि विश्रवसः “विश्रवणरवणौ” इत्यन्तर्गणसूत्रेण विश्रवःशब्दस्य वृत्तिविषये रवणादेशे रावण इति सिद्धम् ॥ स एवावग्रहो वर्षप्रतिबन्धः । तेन क्लान्तं म्लानं मरुतो देवा एव सस्यं तत् । इत्येवंरूपेण वागमृतेन वाक्सलिलेन ॥ “अमृतं यज्ञशेषे स्यात्पीयूषे सलिलेऽमृतम्” इति विश्वः ॥ अभिवृष्याभिषिच्य तिरोदधेऽन्तर्दधे ॥

  पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः ।
  अंशैरनुययुर्विष्णुं पुष्पैर्वायुमिव द्रुमाः ॥ ४९ ॥

 पुरुहूतेति ॥ पुरुहूतप्रभृतय इन्द्राद्याः सुराः सुरकार्ये रावणवधरूप उद्यतं विष्णुमंशैर्मात्राभिः । द्रुमाः पुष्पैः स्वांशैर्वायुमिव । अनुययुः ॥ सुग्रीवादिरूपेण वानरयोनिषु जाता इत्यभिप्रायः ॥

  अथ तस्य विशांपत्युरन्ते काम्यस्य कर्मणः ।
  पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजाम् ॥ ५० ॥

 अथेति ॥ अथ तस्य विशां पत्युर्दशरथस्य संबन्धिनः काम्यस्य कर्मणः पुत्रकामेष्टेरन्तेऽवसानेऽग्नेः पावकात्पुरुषः कश्चिद्दिव्यः पुमानृत्विजां विस्मयेन सह प्रबभूव प्रादुर्बभूव ॥ तदाविर्भावात्तेषामपि विस्मयोऽभूदित्यर्थः ॥

 तमेव पुरुषं विशिनष्टि-

  हेम[२]पात्रगतं दोर्भ्यामा[३]दधानः पयश्चरुम् ।
  अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहम् ॥ ५१ ॥

 हेमपात्रेति ॥ आद्यस्य पुंसो विष्णोरनुप्रवेशादधिष्ठानाद्धेतोस्तेन दिव्यपुरुषेणापि दुर्वहम् । चतुर्दशभुवनोदरस्य भगवतो हरेरतिगरीयस्त्वाद्वोढुमशक्यम् । हेमपात्रगतं पयसि पक्वं चरुं पयश्चरुं पायसान्नं दोर्भ्यामादधानो वहन् । “अनल्पाग्निभिरूष्मपक्व ओदनश्चरुः” इति याज्ञिकाः ॥


  1. अभिषिच्य.
  2. हेमपात्रीकृतम्.
  3. आददानः.