पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२२

पुटमेतत् सुपुष्टितम्
( २० )
रघुवंशे

 अथेति ॥ अथ प्रश्नानन्तरं विजितारिपुरो विजितशत्रुनगरो वदतां वक्तॄणां वरः श्रेष्ठः॥ “ यतश्च निर्धारणम्” इति षष्ठी ॥ अर्थपती राजाथर्वणोऽथर्ववेदस्य निधेस्तस्य मुनेः पुरोऽग्रेऽर्थ्यामर्थादनपेताम् ॥ “धर्मपथ्यर्थन्यायादनपेते” इति यत्प्रत्ययः ॥ वाचमाददे । वक्तुमुपक्रान्तवानित्यर्थः ॥ अथर्वनिधेरित्यनेन पुरोहितकृत्याभिज्ञत्वात्तत्कर्मनिर्वाहकत्वं मुनेरस्तीति सूच्यते । यथाह कामन्दक:-- “त्रय्यां च दण्डनीत्यां च कुशलः स्यात्पुरोहितः । अथर्वविहितं कुर्यान्नित्यं शान्तिकपौष्टिकम्” इति ॥

  उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे ।
  दैवीनां मानुषीणां च []प्रतिहर्ता त्वमापदाम् ॥ ६० ॥

 उपपन्नमिति ॥ हे गुरो । सप्तस्वङ्गेषु स्वाम्यमात्यादिषु ॥ “स्वाम्यमात्यसुहृत्कोषराष्ट्रदुर्गबलानि च । सप्ताङ्गानि” इत्यमरः॥शिवं कुशलमुपपन्नं ननु युक्तमेव ॥ नन्ववधारणे ॥,, प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु” इत्यमरः॥ कथमित्यत्राह--यस्य मे दैवीनां देवेभ्य आगतानां दुर्भिक्षादीनाम्, मानुषीणां मनुष्येभ्य आगतानां चौरभयादीनाम् ॥ उभयत्रापि “तत आगतः” इत्यण् । “टिड्डाणञ्-” इत्यादिना ङीप्॥ आपदां व्यसनानां त्वं प्रतिहर्ता वारयितासि ॥ अत्राह कामन्दकः-“ हुताशनो जलं व्याधिर्दुर्भिक्षं मरणं तथा । इति पञ्चविधं दैवं मानुषं व्यसनं ततः ॥ आयुक्तकेभ्यश्चौरेभ्यः परेभ्यो राजवल्लभात् । पृथिवीपतिलोभाच्च नराणां पञ्चधा मतम्” इति ॥

 तत्र मानुषापत्प्रतीकारमाह--

  तव मन्त्रकृतो मन्त्रैर्दूरात्प्र[]शमितारिभिः ।
  प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदःशराः ॥ ६१ ॥

 तवेति ॥ दूरात्परोक्ष एव प्रशमितारिभिः । मन्त्रान्कृतवान्मन्त्रकृत् ॥ “सुकर्मपापमन्त्रपुण्येषु कुञ्ः” इति किम् ॥ तस्य मन्त्रकृतो मन्त्राणां स्रष्टुः प्रयोक्तुर्वा तव मन्त्रैः । कर्तृभिः । दृष्टं प्रत्यक्षं यल्लक्ष्यं तन्मात्रं भिन्दन्तीति दृष्टलक्ष्यभिदो मे शराः प्रत्यादिश्यन्त इव । वयमेव समर्थाः किमेभिः पिष्टपेषकैरिति निराक्रियन्त इव । इत्युत्प्रेक्षा ॥ “प्रत्यादेशो निराकृतिः” इत्यमरः ॥ त्वन्मन्त्रसामर्थ्यादेव नः पौरुषं फलतीति भावः ॥




  1. प्रतिहन्ता.
  2. सशमितारिभिः; संयमितारिभिः.