पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२२१

पुटमेतत् सुपुष्टितम्
( २१९ )
दशमः सर्गः ।

  ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीक्षितः ।
  चरोरर्धार्धभागाभ्यां तामयोजयतामुभे ॥ ५६ ॥

 ते इति ।। बहुज्ञस्य सर्वज्ञस्य । उचितज्ञस्येत्यर्थः । पत्युर्महीक्षितः क्षितीश्वरस्य । विशेषणत्रयेण राज्ञोऽनुसरणीयतामाह ॥ चित्तज्ञे अभिप्रायज्ञे ते उभे पत्न्यौ कौसल्याकैकेय्यौ ॥ चरोर्यावर्धभागौ समभागी तयोर्यावर्धौ तौ च तौ भागौ चेत्यर्धभागावेकदेशौ । ताभ्यामर्धार्धभागाभ्याम् ॥ “पुंस्यर्धोऽर्धं समेंऽशके” इत्यमरः ॥ तां सुमित्रामयोजयतां युक्तां चक्रतुः । अयं च विभागो न रामायणसंवादी । तत्र चरोरर्धं कौसल्याया अवशिष्टार्धं कैकेय्यै शिष्टं पुनः सुमित्राया इत्यभिधानात् । किंतु पुराणान्तरसंवादो द्रष्टव्यः । उक्तं च नारसिंहे-“ते पिण्डप्राशने काले सुमित्रायै महीपतेः । पिण्डाभ्यामल्पमल्पं तु स्वभगिन्यै प्रयच्छतः” इति ॥ एवमन्यत्रापि विरोधे पुराणान्तरात्समाधातव्यम् ॥

 न चैवं सत्यपीर्ष्या स्यादित्याह-

  सा हि[१] प्रणयवत्यासीत्सपत्न्योरुभयोरपि ।
  भ्रमरी वारणस्येव मदनि[२]स्यन्दरेखयोः ॥ ५७ ॥

 सेति ॥ सा सुमित्रोभयोरपि । समान एकः पतिर्ययोस्तयोः सपत्न्योः ॥ “नित्यं सपत्न्यादिषु” इति ङीप् । नकारादेशश्च ॥ भ्रमरी भृङ्गाङ्गना वारणस्य गजस्य मदनिस्यन्दरेखयोरिव । गण्डद्वयगतयोरिति भावः। प्रणयवती प्रेमवत्यासीत् ॥ सपत्न्योरित्यत्र समासान्तर्गतस्य पत्युरुपमानं वारणस्येति ॥

  ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसंभवः ।
  सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः ॥ ५८ ॥

 ताभिरिति ॥ ताभिः कौसल्यादिभिः प्रजानां भूत्या अभ्युदयाय । देवस्य विष्णोरंशः संभवः कारणं यस्य स गर्भः । सूर्यस्येमाः सौर्यः । ताभिः सौरीभिः ॥ “सूर्यतिष्य-” इत्युपधायकारस्य लोपः ॥ अमृता इत्याख्या यासां ताभिः । जलवहनसाम्यान्नाडीभिरिव । नाडीभिर्वृष्टिविसर्जनीभिर्दीधितिभिरपां विकारोऽम्मयो जलमयो गर्भ इव । दध्रे धृतः ॥ जातावेकवचनम् ॥ गर्भा दधिर इत्यर्थः ॥ अत्र यादवः-“तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने । शतत्रयं हिमोत्सर्गे तावद्गर्भस्य सर्जने । आनन्दाश्च हि मेध्याश्च नूतनाः पूतना इति । चतुःशतं दृष्टिवाहास्ताः सर्वा अमृताः स्त्रियः” इति ॥

  सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः ।
  अन्तर्गतफलारम्भाः सस्यानामिव संपदः ॥ ५९ ।।


  1. अपि.
  2. निष्पन्दलेखयोः.