पृष्ठम्:रघुवंशम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२२२

पुटमेतत् सुपुष्टितम्
( २२० )
रघुवंशे

 सममिति ॥ समं युगपदापन्ना गृहीताः सत्त्वाः प्राणिनो याभिस्ता आपन्नसत्त्वा गर्भिण्यः ॥ “आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी” इत्यमरः ॥ अत एवापाण्डुरत्विष ईषत्पाण्डुरवर्णास्ता राजपत्न्यः । अन्तर्गता गुप्ताः फलारम्भाः फलप्रादुर्भावा यासां ताः । सस्यानां संपद इव । रेजुर्बभुः ॥

 संप्रति तासां स्वप्नदर्शनान्याह-

  गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः ।
  जलजासिग[१]दाशार्ङ्गचक्रलाञ्छितमूर्तिभिः ॥ ६० ॥

 गुप्तमिति ॥ सर्वास्ताः स्वप्नेषु । जलजः शङ्खः । जलजासिगदाशार्ङ्गचक्रैर्लाञ्छिता मूर्तयो येषां तैर्वामनैर्ह्रस्वैः पुरुषैर्गुप्तं रक्षितमात्मानं स्वरूपं ददृशुः ॥

  हेम[२]पक्षप्रभाजालं गगने च वि[३]तन्वता ।
  [४]ह्यन्ते स्म सुपर्णेन वेगा[५]कृष्टपयोमुचा ।। ६१ ॥

 हेमेति ॥ किंचेति चार्थः । हेम्नः सुवर्णस्य पक्षाणां प्रभाजालं कान्तिपुञ्जं वितन्वता विस्तारयता । वेगेनाकृष्टाः पयोमुचो मेघा येन तेन । सुपर्णेन गरुत्मता गरुडेन गगने ता उह्यन्ते स्मोढाः ॥

  बिभ्रत्या कौ[६]स्तुभन्यासं स्तनान्तरविलम्बिनम् ।
  [७]र्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया ॥ ६२ ॥

 बिभ्रत्येति ॥ किंच । स्तनयोरन्तरे मध्ये विलम्बिनं लम्बमानम् । न्यस्यत इति न्यासः । कौस्तुभ एव न्यासस्तम् । पत्या कौतुकान्न्यस्तम् । कौस्तुभमित्यर्थः । बिभ्रत्या पद्ममेव व्यजनं हस्ते यस्यास्तया लक्ष्म्या पर्युपास्यन्तोपासिताः ॥

  कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः ।
  ब्र[८]ह्मर्षिभिः परं ब्रह्म गृणद्भिरु[९]पतस्थिरे ॥ ६३ ॥

 कृतेति ॥ किंच । दिवि भवायां दिव्यायां त्रिस्रोतस्याकाशगङ्गायां कृताभिषेकैः कृतावगाहैः । परं ब्रह्म वेदरहस्यं गृणद्भिः पठद्भिः सप्तभिर्ब्रह्मर्षिभिः कश्यपप्रभृतिभिरुपतस्थिर उपासांचक्रिरे ॥

१ २ ३ ४ ५ ६ ७ ८ ९


  1. खड्गगदा; शङ्खगदा.
  2. हेमपत्र.
  3. विचिन्वता.
  4. उह्यमानम् .
  5. वेगात्कृष्टपयोमुचा.
  6. कौस्तुभं न्यासम्.
  7. उपास्यमानम्.
  8. महर्षिभिः.
  9. समुपस्थितम्.